________________
६५ ]
ब्रह्मसिद्धान्त समुच्चयः ।
मूलजन्मा त्वयत्नेन भ्रम्यते नैव केनचित् । एतद्वत्युपमैषैव भावमूलसमन्विते ॥५१॥ न तस्माद् भावसंसिद्धिरतस्त्वनधिकारिणः । अस्य त्वेतन्नियोगेन भावसङ्गतमेव हि ॥ ५२ ॥ | सदन्धसङ्गतिसमं गीतं चास्येदमाविलम् । सद्भावनेत्राभावेऽपि तथामार्गानुसारिणः ॥ ५३ ॥ अपुनर्वन्धको यस्माद् गुणस्थानकमेव हि । मिथ्यादृष्टिरपि युक्तः स च तादृकक्रियान्वितः ॥५४॥ तदस्य द्रव्यतो ज्ञेयं तत्क्रियामतिपालनम् ।
योग्य[५-द्वि.] तामधिकृत्येह तदन्यत् त्वप्रधानकम् ॥५५॥ किं तत्त्वमिति जिज्ञासा या सर्वत्राऽऽग्रहं विना । सौवात् तद्भावतस्तत्त्वप्रतिपत्तिः सतां मता ॥ ५६ ॥ सम्यक्त्वजननी सैपा लोकसंज्ञाऽचलाशनिः । दिदृक्षा चलनावस्था सैषा प्रकृतिमोक्षणी ॥५७॥ Arraोrai सेयं प्रणिधानक्रिया परा । लोकोत्तरपदाकाङ्क्षा सेयं प्रमुदितास्पदम् ||५८|| ब्रह्मसङ्ग चैव तथा भवपलायनी । कल्याणवेनुः परमा सर्वसम्पत्करीति च ॥५९॥ प्रथमा गीयतेऽवस्था मुक्तिसाधनवादिभिः । दुरापा पापसत्त्वानामवन्ध्या मुक्तिसिद्धये ॥ ६०|| समयाख्याऽत्र दीक्षाऽस्य तद् ब्रूयाद् यस्य तात्विकी । सद्रत्नद्धिमाप्तिवन्निरर्गला नियोगिनः ॥ ६१ ॥ आगमेनानुमानेन योगाभ्यासरसेन च ।
त्रिधा [[६-प्र.] कल्पयन् मज्ञां लभते तत्त्वमुत्तमम् ॥६२॥ ज्ञेया समयदीक्षा या दीयमा
न ।
॥६३॥
साधकस्य तथा स
+
धिकारित्वमतश्चास्योपजायते । आस्तिक्यादिगुणाप्तिश्च क्रमेणैव यथोदिता || ६४ || विपर्ययस्य व्यावृत्तिरेवमेवापरैरपि ।
Jain Education International इष्टाऽत्रान्तर एवेति पञ्चभेदस्य तच्चतः ॥६५॥
५१
5
10
15
20
25
www.jainelibrary.org