________________
श्राहा।
श्रीहरिभद्रसूरिविरचितः [लो० १० आविर्भाव-तिरोभावावाद्यानां स्तो नियोगतः। इतरेषां तु विज्ञेयः सदाऽऽविर्भाव एव हि ॥१०॥ एतद्योगान्महात्माऽयं परार्थोद्यतमानसः । पशुभावमतिक्रान्तो मिथ्यात्वविगमादिति ॥११॥ असत्प्रवृत्तिहेतोश्च यः क्षयोपशमात् तथा । कर्मणो विरतः पापचेतसा विरतस्त्वसौ ॥१२॥ चेतसा विरतस्यैवं न प्रवृत्तिः कदाचन । बाह्याऽपि जायते तत्र तत्पूर्वेयं यतो मता ॥१३॥ बाह्येोऽप्रवृत्तिमात्रं तु विरतिनैव तत्त्वतः । चेतसाऽविरतस्यैवं [२-द्वि० तथा तच्छक्तियोगतः ॥१४॥ सामय्यभावतो बहिरदहन्नपि दाहकः । यथा तच्छक्तियोगेन तथाऽयमपि पापकृत् ॥१५॥ तच्छक्तिपतिबन्धे तु यथेन्धनगतोऽपि न । दाहकोऽसो, तथैवात्मा विरतः पापभागपि ॥१६॥ स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः । नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः ॥१७॥ कर्ममल्लं समाश्रित्य जयकक्षाव्यवस्थितः । सिद्धिक्रियायामुद्युक्तो धैयौदार्यसमन्वितः ॥१८॥ असङ्गशक्त्या सर्वत्र वर्ततेऽयं महामुनिः। यत्नतो वृत्तिरप्यस्य न बन्धायेति तद्विदः ॥१९॥ तदेतत् परमं धाम विद्याजन्मोद्भवं तु यत् । महासमाधेः सद्भोज गीयते सिद्धयोगिभिः ॥२०॥ प्रशान्तवाहिता सैषा तद्धि तत्तत्फलं परम् । सन्नद्यम्भोधिसंयोग[ ३-प्र० सम्मज्ञातो महानयम् ॥२१॥ सर्व धर्मादि यः साधु • • • • • • • तः । रागादिरहितश्चैव स सर्वज्ञः सतां मतः ॥२२॥
प्रशान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org