SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ जयन्तु वीतरागाः ॥ बहुसम्भाव्यमानतया याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिविरचितः [ब्रह्मसिद्धान्तसमुच्चयः 10 [१ - द्वि० ] ९॥ नमः ॥ नत्वा जगद्गुरुं देवं महावीरं परं शिवम् । ब्रह्मादिप्रक्रियां वक्ष्ये तत्सिद्धान्तानुसारतः ॥१॥ ब्रह्माण्युपासनामेषां दीक्षां देशादिसंज्ञिताम् । तद्भावलिङ्गं स्पष्टार्थ फलं चेति समासतः ॥२॥ बृहत्त्वाद् बृंहकत्वाच्च ब्रह्माण्याहुमहर्षयः । सुखारम्भादिसंज्ञानि पञ्च तान्यत्र शासने ॥३॥ मुखारम्भं तथा मोहपराक्रममथापरम् । मोहघ्नं परमज्ञानं सदाशिवमनुत्तरम् ॥४॥ सम्यग्दृष्टिगतं ह्याद्यं विरतस्थमतः परम् । तृतीयमप्रमत्तस्थं सर्वज्ञस्थं ततो मतम् ॥५॥ अष्टकर्मकलातीतसिद्धस्थं पञ्चमं तथा। चतुर्दशमहालोकमूर्द्धमुक्तिपदेश्वरम् ॥६॥ प्रक्षीणतीव्रसङ्क्लेश मोहग्रन्थिविभेदतः। आस्तिक्यादिगुणोपेतः सम्यग्दृष्टिरुदाहृतः ॥७॥ आस्ति[२ - प्र०]क्यादनुकम्पाऽस्य ततो निर्वेद इत्यपि। तस्मात् संवेगसंसिद्धिरतः प्रशम इत्यलम् ॥८॥ अतः क्रमादमी भावा जायन्तेऽस्य महात्मनः । भायोपशमिकाः पूर्व तदनु क्षायिका अपि ॥९॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy