________________
स्वोपज्ञटीकालंकृतं योगशतकम् ।
४३ ___ एवं देवतातः – देवताकथनेन, चारित्री देवतापरिगृहीतो भवति तस्योचितमन्यदपि देवता कथयत्येव । एवं प्रतिभातः- प्रातिभमप्यस्याविसंवाद्येव भवति, व्यवहारोपयोगिन्यपि तथोपलब्धेः । एवं स्वप्नाद्-मृतगुर्वाह्वानादेः ' मृतगुर्वाह्वान-बालदेहभाव-भोगसन्दर्शनं योगिनोऽन्तकाले सिद्धः चित्तविभ्रम इति । अरुन्धत्याद्यदृष्टेः। यथोक्तम्
प्रध्मातदीप[ग] गन्धमल्पायुनैव जिघ्रति । स्फुटतारावृते व्योन्नि न च पश्यत्यरुन्धतीम् ।।
तथा 'नासा-ऽक्षितारकाऽदर्शनात्' इति नासिकाऽदर्शनं अवष्टब्धाऽक्षिज्योतिस्ताराऽदर्शनं चाऽऽसन्नमृत्युलिङ्गम् । तथा ‘कर्णान्यश्रवणाद्' अङ्गुष्ठापूरितकर्णान्तराग्न्य- 10 श्रवणं आसन्नमृत्युलिङ्गं समुद्रध्वनिश्रवण-दशग्रन्थिस्फुरण-द्वादशाक्षरानुपलम्भाधुपलक्षणमेतत् । इति गाथार्थः ॥ ९७ ॥
एवमेनं ज्ञात्वा किम् ? इत्याहअणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो।
जल्लेसे मरइ जओ तल्लेसेसुं तु उववाओ ॥९८॥ 15
अनशनशुद्धाविह कवचोदाहरणेन य ३५-द्वितीत्नोऽतिशयेन भवति कर्तव्यः, फलप्रधानाः समारम्भा इति कृत्वा । किमेतदेवम् ? इत्याह- यल्लेश्यो म्रियते यतः प्राणी भावलेश्यामधिकृत्य तल्लेश्येष्वेवामरादिधूपपद्यते, “जल्लेसे मरइ तल्लेसे उववज्जई" ।
] इति वचनात् । न चास्यामवस्थायामेवं मतः स्वप्राणातिपातः, विहितकरणात् , वचनप्रामाण्याद् माध्यस्थ्योपपत्तेः, अन्यथा दोषभावाद् 20 वचनविरोधात् । एवमेवमेव हि तदाशयपरिपुष्टेः तत्सङ्कल्पभावानुरोधात् । इति गाथार्थः ॥ ९८ ॥ एवमिह लेक्ष्यायाः प्राधान्यमुक्तम् , न चैतावतैव एतच्चारु भवतीत्याह --
लेसाय वि आणाजोगओ उ आराहगो इई नेओ। इहरा असतिं एसा वि तऽणाइम्मि संसारे ॥१९॥ 25
लेश्यायामपि सत्याम्, किम् ? इत्याह--आज्ञायोगत एव, दर्शनादिपरिणामयोगादेवेत्यर्थः । आराधकश्चरणधर्मस्य 'इह ज्ञेयः' इह प्रवचने ज्ञातव्यः, नान्यथा । __१. अस्य ग्रन्थस्य ताडपत्रीये मूलादर्श एतत्पुष्पिकास्थाने एतादृग् x हंसपदं वर्तते, किञ्च उपरि अधो वा पाठो लिखितो नास्तीति संशोधकविदुषोऽत्र पाठलेखनविस्मृतिः सम्भाव्यते ।।
Jain Education International
Private & Personal Use
www.jainelibrary.org