________________
४४ स्वोपशटीकालंकृतं योगशतकम्। गा० १००एतदेवाह- 'इतरथा एवमनभ्युपगमे सति, किम् ? इत्याह-- 'असकृत्' अनेकश: 'एषाऽपि' शुभा लेश्या प्राप्ता सौधर्माद्युपपातेन "हन्त सम्प्रेषण-प्रत्यवधारणविवादेषु" इति [इह 'हन्त'] सम्प्रेषणेऽवसेयः, अनादौ संसारे, अतिदीर्घ इ[३६-प्र०]त्यर्थः,
न चाऽऽराधकत्वं सञ्जातम्, तस्माद् यथोक्तमेव तत्त्वं प्रतिपत्तव्यम् । इति 5 गाथार्थः ॥ ९९ ॥
प्रकरणोपसंहारार्थमेवाह
ता इय आणाजोगे जइयव्चमजोगअस्थिणा सम्म ।
एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१०॥
यस्मादेवं तस्माद् "इय” एवम् 'आज्ञायोगे' आगमव्यापारे, किम् ? इत्याह10 ‘यतितव्य' यत्नः कार्यः । केन ? 'अयोगतार्थिना' शैलेशीकामेन सत्त्वेन 'सम्यग्'
अविपरीतेन विधिना । यस्माद् ‘एष एव' आज्ञायोगः भवविरहः' जीवन्मुक्तिः संसारविरहो वर्तते, कारणे कार्योपचारात् , यथाऽऽयुघृतमिति । तथा 'सिद्धेः' मुक्ते: 'सदा' सर्वकालं अविरहश्चष एव, आजीविकमतमुक्तव्यवच्छेदार्थमेतत् , मुक्तस्य कृतकृत्यत्वेनेहागमनायोगाद् अविरहः । इति गाथार्थः ॥ १० ॥
॥ योगशतकटीका समाप्ता॥ ॥ कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ ॥ ग्रन्थाग्रमनुष्टुप्छन्दसोदेशतः श्लोकशतानि सप्त सार्धानि ।। ७५० ॥
योगशतकस्य टीकां कृत्वा यदवाप्तमिह मया कुशलम् । तेनानपायमुच्चैर्योगरतो भवतु भव्यजनः ॥१॥
संवत् ११६५ फाल्गुन सुदि ८ लिखितेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org