________________
श्रीहरिभद्रसूरिविरचितं
[गा० ८६
"
चतस्रोऽप्येकप्रघट्टकप्रतिबद्धाः । आसां व्याख्या - कायक्रियया' आगमबाधयाऽसद्भावतो भावशून्यया 'दोषाः ' रागादयः क्षपिताः सन्तः, किम् ? इत्या[ ३१ - प्र० ]ह - मण्डूकचूर्णतुल्याः इति यथा माण्डूकचूर्णे चूर्णावस्थायां माण्डू - कक्रियाक्षयः सन्नप्यक्षयकल्पः प्रावृडादिनिमित्तयोगतः तदधिकभावात् एवं कायकियया वचनबाधोपेतया तथाविधानुष्ठानसमभिव्यङ्गयो दोषक्षयोऽक्षय एव, जन्मान्तरादिनिमित्तयोगतस्तदधिकभावादिति । उक्तं च-- "क्रियामात्रतः कर्मक्षयः मण्डूकचूर्णवत् , भावनातस्तु तद्भस्मवत्" [ ] इत्यादि । अपथ्यद्रव्ययोगवेदनाक्षयोपलक्षणमेतत् । एवं दोषाः 'भावनया' वचनगर्भया चित्तवृत्या, क्षपिता इति वर्तते, ज्ञेयाः । किंविशिष्टाः ? इत्याह- 'तत्सा ( ? च्छा ) रसदृशाः' मण्डूकभस्म1) तुल्याः, पुनरभावात् । भावना ह्यत्राग्नितुल्या वर्तते, इयं च वचननिमित्तैवेति । तद् "एतयैवैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः " [ गा० ८५ ] इति एतदनुपात्येव एतदिति परिभावनीयम् । इति प्रथमगाथार्थः ||८६ ॥
1
३८
एवं पुण्यमपि 'द्विधा' द्विप्रकारम् । कथम् ? इत्याह- 'मृण्मय-कनककलशोपमं भणितम्' एकं मृण्मयकलशोपमं क्रियामात्रजन्यमफलं सत् तत्फलदानस्वभावं 15 वा, [३१-द्वि०] अन्यत् कनककलशोपमं विशिष्टभावनाजन्यं तथातथाफलान्तरसाधनेन प्रकृष्टफलजनकस्वभावमिति । एतद् भणितम् 'अन्यैरपि' सौगतैः – “द्विविधं हि भिक्षवः ! पुण्यम् —— मिथ्यादृष्टिजं सम्यग्दृष्टिजं च । अपरिशुद्धमाद्यम्, फलं प्रति मृद्घटसंस्थानीयम् । परिशुद्वमुत्तरम् फलं प्रति सुवर्णघटसंस्थानीयम् " [
1
] इति वचनात् । 'इह मार्गे' योगधर्ममार्गे ' नामविपर्यासभेदेन' 20 अभिधानभेदेन, एतदपि “इतरस्य बन्धकः तथा सुखेनैव मोक्षगामीति " [गा०८५ एतदनुपाति तत्त्वतः । इति द्वितीयगाथार्थः ॥ ८७ ॥
तथा कायपातिनः, न पुनश्चित्तमधिकृत्य पातिनः 'बोधिसत्त्वाः' बोधिप्रधानाः प्राणिन इति भवन्ति । तथाभावनातः सकाशाद् ' आशययोगेन' चित्तगाम्भीर्य - लक्षणेन शुद्धा[श]या इति। तथा चार्षम् — “कायपातिनो हि बोधिसत्त्वाः, न चित्त25 पातिनः, निराश्रवकर्मफलमेतत्" । इति तृतीयगाथार्थः ॥ ८८ ॥
1
एवमादि, आदिशब्दाद् “विजया -ऽऽनन्द - सत्क्रिया- क्रियासमाधयः प्रवृत्तादीनाम् ; तथा वितर्कचारु क्षुभितं प्रथमम् प्रीत्युत्प्लावितमानसं द्वितीयम् सुखसङ्गतमातुरं तृतीयम् प्रशमैकान्तसुखं चतुर्थमेतत्" इत्यादि प्रगृह्यते । [३२ -प्र०] तदेवमादि यथोदितभावनाविशेषात् सकाशाद् 'युज्यते सर्वं' घटते निरवशेषम्, तत्त्व
1
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org