________________
९१]
स्वोपनटीकालंकृतं योगशतकम् । ३१ मधिकृत्य योगवृद्रेः, अधिकृतभावनायाश्च एवंस्वरूपत्वात् । 'मुक्ताभिनिवेशं खलु' इति सावधारणं क्रियाविशेषणम् , मुक्ताभिनिवेशमेव निरूपयितव्यं स्वबुद्ध्या, अभिनिवेशस्य तत्त्वप्रतिपत्तिं प्रति शत्रुभूतत्वात् , युक्तेरपि वैतथ्येन प्रतिभासनात् । उक्तं चात्र
“आग्रही बत ! निनीषति युक्तिं तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तियंत्र, तत्र मतिरेति निवेशम् ॥ साध्वसाध्विति विवेकविहीनो लोकपक्तिकृत उक्तिविशेषः । बालिशो भवति नो खलु विद्वान् , सूक्त एव रमते मतिरस्य ॥"
इत्यलं प्रसङ्गेन । इति चतुर्थगाथार्थः ॥ ८९ ॥
एवं प्रासङ्गिकमभिधाय 'एतयेष युक्तः' इत्येतद्गाथा ८५]सम्बद्धामेव प्रकृतयो- 120 जनागाथामाह ---
एएण पगारेणं जायइ सामाइयस्स सुद्धि त्ति । तत्तो सुक्कज्झाणं, कमेण तह [३२-द्वि०] केवलं चेव ॥१०॥
एतेन प्रकारेण अनन्तरव्यावर्णितस्वरूपेण, किम् ? इत्याह- जायते' निष्पद्यते 'सामायिकस्य' मोक्षहेतोः परिणामस्य 'शुद्धिः' विशेषाभिव्यक्तिरिति । 15 परिभावितमेवैतत् प्राक् । 'ततः' सामायिकशुद्धेः 'शुक्लध्यान' पृथक्त्ववितर्क सविचारमित्यादिलक्षणं जायते इति वर्तते । 'क्रमेण' तथाश्रेणिपरिसमाप्तिलक्षणेन 'केवलं चैव' केवलज्ञानं च जायते । इति गाथार्थः ।। ९० ॥
सामायिकस्यैव प्राधान्येन मोक्षाङ्गतां ख्यापयन्नाहःवासी-चंदणकप्यं तु एत्थ सिद्ध अओ च्चिय बुहेहिं । आसयरयणं भणियं, अओऽण्णहा ईसि दोसो वि ॥११॥
'वासी-चन्दनकल्पमेव सर्वमाध्यस्थ्यरूपम् 'अत्र' व्यतिकरे 'श्रेष्ठ' प्रधानम् । अत एव कारणाद् 'बुधैः' विद्वद्भिः 'आशयरत्नं भणित' चित्तरत्नमुक्तम् , 'जो चंदणेण बाहं आलिंपइ" उपदेशमाला गा० ९२ ] इत्यादिवचनेन । अतोऽन्यथा' अपकारिण्येवोपकार्याशयकल्पनायामाशयरत्न[३३-प्र०]स्य, किम् ? इत्याह- 25 'ईषत् ' मनाग् दोषोऽपि तदपायानिरूपणेन । तथा चोक्तम्
“सामायिकं च मोक्षाङ्गं परं सर्वज्ञभाषितम् । वासी-चन्दनकल्पानामुक्तमेतन्महात्मनाम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org