________________
५४
महाकविश्रीरामचन्द्रविरचित
भवत्या भ्रष्टप्रतिज्ञो नरककुहरात् । ततः स्वयमेवाऽऽगत्य दर्शय वीतरागप्रतिमातस्मै वध्याय ।
( प्रविश्य )
गन्धमूषिका - कुमार ! किमिदमपर्यालोचितकारित्वम् ? केयमदीर्घदशिता ! | ( पुनरपवार्य ) किमेतेन वराकेण व्यापादितेन ? | अहमेवैनं व्यापाद्य मल्लिकामनुरागिणीं विधाय त्वदेकशरणमाधास्ये ।
।
चित्राङ्गदः - महाप्रसादः | ( इत्यभिधाय सपरिकरो निष्क्रान्तः । ) गन्धमूषिका - माकन्द ! आयतबन्धनं मकरन्दं मल्लिकां च गृहीत्वा त्वरिततरमागच्छ । ( इति निष्क्रान्ताः सर्वे । )
॥ पञ्चमोऽङ्कः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org