________________
॥ षष्ठोऽङ्कः ॥
(ततः प्रविशति माकन्दः ।) माकन्दः - ( सविषादम् ) हा महासत्त्व ! हा प्रतिपन्नवत्सल ! हा कृतज्ञचूडामणे मकरन्द ! क्यासि ? देहि मे प्रतिवचनम् । ( पुनर्विमृश्य ) न खलु दुरास्मनां स्त्रीणां कृत्यमकृत्यं वा किमप्यस्ति । अपरथा निरागसो मकरन्दस्य विप्रियमाचरन्त्या भगवत्याः को विचारः ! का वा महीयसी प्रयोजनसिद्धिः । यदि चन्द्रलेखा केनापि दुराग्रहेणाऽऽन्मनः प्रतिपन्थितामुद्वहति मकरन्दे ततः किमायातं गन्धमूषिकायाः ?
सतां दुनोति चेतांसि मार्ग स्वार्थेऽपि लड्यन् । लङ्घयत्यपरस्यार्थे यः पुनस्तस्य किं ब्रुवे ? ॥१॥ अथवा किमनया प्रभुकृत्यमीमांसया ?। निवेदयामि वैश्रवणप्रसाधितां प्रयोजनसिद्धिं भगवत्यै । ( परिक्रामति । पुरोऽवलोक्य ) कथमितोऽभ्युपैति तामरसः ।
(ततः प्रविशति तामरसः ) तामरसः -
एताः कुरङ्गकदृशः प्रमदस्य बीज
मायं यथा यदि तथा स्थिरचेतसः स्युः । तस्मै पुराणपरिकल्पितगौरवाय
को नाम निर्वृतिसुखाय तदा यतेत ? ॥२॥ (पुनः सविषादम् ) अहो ! पारिप्लवता स्त्रीणाम् , अहो ! क्षणिकता प्रेम्णाम्, अहो ! भङ्गुरता प्रतिज्ञानाम् । यदिदानी तानि तादृशानि मकरन्दनिमित्तं पानाऽशनत्याजनानि, तानि तादृशानि चित्राङ्गदं प्रतिकूलाचरणानि, तानि च चन्द्रलेखां प्रति मर्मो इट्टनागर्भाणि विप्रियभाषितानि, सर्वथा विस्मृत्य मल्लिका पुनजर्जातजन्मेव चिरप्ररूढप्रौढप्रेमेव चित्राङ्गदमनुनयति । प्रोत्साहितवती च मकरन्दं व्यापादयितुं चन्द्रलेखां गन्धमूषिकां च । अथवा
ददाति रागिणी प्राणानादत्ते द्वेषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org