SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित 'स पुनरिदानी मकरन्दः क्व वर्तते ?' इति ज्ञायते ? । माकन्दः - ( उपसृत्य ) सखे तामरस ! इदानीं यथा मकरन्दो वर्तते तथा शणु, कथयामि । तामरसः - सखे ! समासतः प्रथमं तावदाचव, प्राणानां कुशलं न वा ?। माकन्दः - कथं न कुशलं प्रतिज्ञातवत्यां चित्राङ्गदविवाहं भगवत्यां गन्धमूषिकायाम् ?। तामरसः - एतावतैव भवतो वक्रोक्तिव्याहारेण परिज्ञातः समासतः परमार्थः । तथापि सविस्तरमावेद य । __ माकन्दः - अतीतरजनीनिशीथे गन्धमूषिकायाः समादेशेन मकरन्दमहं सिद्धायतनस्थाय भगिनीपतये वैश्रवणाय उपनीतवान् । तामरसः - किमियं गन्धमूषिकाया मनोरमा भागिनेयी ? । अत एव गन्धमूषिका वैश्रवणे प्रसादवती । प्रस्तुतमभिधीयताम् । माकन्दः - स च वैश्रवणस्तदानीमेव तं मकरन्दं तमोगुहायां कृपाणेन (इत्य- . ोक्ते तूष्णीमास्ते । ) तामरसः – महान् वैश्रवणः, महती च भगवती गन्धमूषिका, तन्निमित्तमनार्यमिदमाचचार । माकन्दः - ( साक्षेपम् ) किमेवमधतुरोचितं वचः प्रपञ्चयसि ?। अकृत्यमाचरत्येव सर्वः प्राण-धनेच्छया । महानेषोऽमहानेषः सैष भेदोऽन्यवस्तुषु ॥४॥ तामरसः - तत् किमत्रार्थे धनलाभः कोऽपि ?। . माकन्दः - सखे ! किं ममानेन प्रभुकौलीनप्रकाशनेन ? तत् कथय क्व प्रस्थितोऽसि ?। तामरसः - मल्लिकया चित्राङ्गदाकारणाय प्रेपितोऽस्मि । माकन्दः - वन तहि, अहमपि गन्धमूपिकायाः सविधमधितिष्ठामि । ( इति निष्क्रान्तौ ।) ॥ विष्कम्भकः ॥ । ततः प्रविशति चित्राङ्गदो मल्लिका च, कपिञ्जल-देवलक-मागधिकाप्रभृतिकश्च परिवारः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy