________________
मल्लिकामकरन्दनाटकम् । चित्राङ्गदः - ( मल्लकामालोक्य सविनयम् )
अङ्गं शिरीषमृदु काञ्चनकुम्भशोमां मुष्णात्ययं स्तनयुगस्तबकावलेपः । चः सुधामुपहसन्ति जलोद्भवां तां
केनासि पुष्पधनुषोऽपि न मन्मथाय ! ॥५॥ (पुनः सोपालम्भम् ) प्रिये ! विदग्धजनप्रकाण्डं तत्रभवती भवती। ततः कथं पामरजनोपलक्ष्येऽपि विशेषतो बाढं व्यामूढाऽसि ? । क्व चामी वयं विद्याधराः ? क्व चायं किराटकीट: ?। अप्रियभाषित्वं प्रथम दोर्भाग्यकारणम्, कुतस्ततः प्रतिबान्धवं विप्रियाणि भाषितवती ? ।
मल्लिका - ( सलज्जम् ) 'देवलय ! [कहय] अज्जउत्तस्स कारणं ।
देवलकः - कुमार ! इयं भर्तृदारिका पञ्चशैलदीपोपवने दुरात्मना वणिकीटेन केनापि मन्त्र-तन्त्रविधिना व्यामोहिता।
कपिञ्जलः - ततस्ततः ।
देवलकः - ततः प्रभृति मातरमवजानाति, वरयितारमसूयति, सखोजनमवगणयति, प्रसाधनमहस्तयति, परिजनमभिक्रुध्यति ।
चित्राङ्गदः - ततस्ततः ? ।
देवलकः - ह्यस्तने दिने च भगवत्या गन्धमूषिकया केनापि कर्मणा व्यामोहप्रत्यूहमपनीय स्वास्थ्यमानीता सती मातरि वरयितरि सखीजने प्रसाधने परिजने च निर्व्याज स्निह्यति ।
चित्राङ्गन्दः - ( सहर्षम् ) कपिजल ! केन कर्मणा भगवत्या वयमानृण्यं गमिष्यामः । मल्लिका - "अज्जउत्त ! धन्ना खु दाणि अहयं भयवईए पसाएण।
सहजग्गिराण सहसोविराण सहहरिस-सोयवंताण ।
नयणाण व धन्नाणं आजम्ममकीत्तिमं पिम्म ॥६॥ चित्राङ्गदः - प्रिये प्रियंवदे! १ देवलक ! [कथत] आर्यपुत्रस्य कारणम् । २ आर्यपुत्र । धन्या खलु इदानीं अहं भगवत्याः प्रसादेन । सहजागृतृणां सहस्वपितृणां सहहर्ष-शोकवताम् । नयनानामिव धन्यानां आजन्म अकृत्रिमं प्रेम ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org