SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ५८ महाकविश्रीरामचन्द्रविरचि सम्पर्कपर्वणि सुधां वपुषि क्षरन्ती सत्यं सुधांशुकिरणैः परिकल्पिताऽसि । मर्माणि मर्मरकणैर्विरहे भिनत्सि तेनासि विह्निघटितेत्यपि मे वितर्कः ॥७॥ मागधिका - कुमार ! 'निक्कारण पिम्मगहिल्लियाओ महिलाओ जाण गेहम्मि । ताण मणुआण मणुअत्तणे वि देवत्तरिद्धीओ ॥८॥ कपिञ्जलः - मागधिके ! अत्यल्पमभिदधासि । मल्लिकायां देवत्वमिति लघ्वी मात्रा । चित्राङ्गदः - ( सस्पृहम् ) मृदे तस्यै बद्धः करतलयुगेनाज्ञ्जलिरयं या क्लृप्ताऽसि त्वं मनसिजवधूटीप्रतिकृतिः । सवेधा दुर्मेधाः खलु पुनरमार्ग कविगिरां विधाय त्वां चक्रे न किल निजकान्तां सुदति । यः ॥ ९॥ ( मल्लिका सलज्जमधोमुखी भवति । ) चित्राङ्गदः - अपि च चन्द्रमुखि ! अभाग्यदोषः स रसातलस्य न शेषकन्या भवती यदासीत् । त(? त्व) द्वक्त्रचन्द्रेऽसति तत्र सान्द्र तमोsन्यथा कुत्र पदं लभेत ? ॥ १० ॥ मल्लिका ( सात्त्विकभावानभिनोय ) अज्जउत्त ! वणियतणया अहयं अणरिहा ईदिसाणं विन्नाणाणं । चित्राङ्गदः - ( साक्षेपम् ) मृगाक्षि ! नाद्यापि दुर्भाषितेभ्यो विरमसि ? याता कामगवी दिवं व्यपहृता कादम्बरी दानवैनीता साऽपि सुरैः सुधा श्रितवती लक्ष्मीर्मुरारेरुरः । इत्थं स्वैरविहारशालिनि सुतावर्गे सुताकौतुकी भूयस्त्वामजनिष्ट विष्टपदृशां पीयूषमम्भोनिधिः ॥ ११॥ Jain Education International p १ निष्कारणप्रेमग्रथिला महिला येषां गृहे । तेषां मनुजानां मनुजत्वेऽपि देवत्वर्द्धयः ॥८॥ २ आर्यपुत्र ! वणिक्तनया अहं अनर्हा ईदृशानां विज्ञानानाम् | For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy