________________
मल्लिकामकरन्दनाटकम् ।
( मल्लिकाऽन्यतोऽवलोकयति ।) चित्राङ्गदः - मृगाक्षि ! कथं दिक्षु चक्षुषी निक्षिपसि ? मद्वक्त्रमालोकय ।
मल्लिका - 'अज्जउत्त ! अत्तणो दुच्चरिदाई समरंती न सक्केमि तुम पिक्खिहूँ। चित्राङ्गदः - ( सरोमाञ्चम् )
अयि ! जगति वदन्त्यां प्रेमगर्भ भवत्या
ध्रुवमवगतलज्जाः कोकिला व्याहरन्ते । सति च तव मुखेन्दौ निष्कलङ्के सदैव
प्रमदमयमगच्छन्नब्बुराशिर्जडात्मा ॥१२॥ मल्लिका - 'अज्जउत्त ! खमेसु सव्यमवरद्धं, अवरं तुह चरणिक्कसरणा चित्राङ्गदः - ( सहर्षगर्वम् ) शतपत्रलाक्षि !
अद्याभूवं खचरगणनापात्रमद्यास्मि दृष्टः ___ सन्तुष्ठाभ्यां स्तिमितमनसा वेधसा लोचनाभ्याम् । देवस्यापि द्रहिण-मुरजित्पार्वतीशस्तुतांहेः
कामस्याद्य ध्रुवमकरवं स्तोकमीर्ष्याभिषेकम् ॥१३॥ अपि च कलकण्ठीकण्ठि !
शास्त्रे त्वयि त्रिजगतो विजयकशौण्डे
विख्यातधाम्नि हतके मसणावलोकः । मथ्नाति किं न हरवैरमयं मनोभूरल्पीयसोऽपि समये सफलः प्रयत्नः ॥१४॥
( नेपथ्ये ) "साहु जंपिदं कुमार ! तुमए साहु । मल्लिका - ( विलोक्य ) 'कधं एसा मनोरमा ? ।
(प्रविश्य ) मनोरमा - साहु जंपिदं कुमार ! तुमए साहु । ( मल्लिका प्रति ) भट्टिदारिए ! भयवई तुम आदिसदि।
१ आर्यपुत्र ! आत्मनः दुश्चरितानि स्मरन्ता न शक्नोमि त्वां प्रेक्षितुम् । २ आर्यपुत्र ! क्षमस्व सर्वमपराद्धम्, अपरं तव चरणैकशरणा अहम् । ३ साधु जल्पितं कुमार ! त्वया साधु । ४ कथमेषा मनोरमा १ । ५ साधु जल्पितं कुमार ! त्वया साधु । भर्तृदारिके ! भगवती त्वां आदिशति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org