SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६ . महाकविश्रीरामचन्द्रविरचित मल्लिका - ( सविनयम् ) 'किमादिसदि भयवई !। मनोरमा – 'समयवसेणं सबो वि पयत्तो तुह मणोरहाणुरूवो संवुत्तो। ता अणुहवसु तुम वरेण समं कोउअकम्माई।। चित्राङ्गदः - ( साक्षेपम् ) मनोरमे ! भगवतीप्रसादेनेति वक्तव्यम् , न पुनः समयवशेन । मल्लिका-मणोरमे ! कहिं दाणि भयवई अंबा य चिट्ठदि ? । मनोरमा - जत्थ तुम जाणासि । चित्राङ्गद:-( सोत्प्रासम्) अस्ति वणिग्डिम्भस्तेऽभ्यन्तरः। देवलकः - कुमार ! अपराधक्षमणायां किमुचितं मर्मोद्घाटनम् ? । चित्राङ्गदः - देवलक ! साधु शिक्षिता वयम् । लभ्यमस्मत्तो भवता किमपि पारितोषिकम् (पुनमल्लिका प्रति सविषादम्) राधां गोपभवामकामयत तां लक्ष्मी च यादोऽभजत् कंसारिः पुरुषोत्तमः स भगवान् लोके तथापि श्रिये । श्रीविद्याधरवंशमौक्तिकमणिं त्वां वाञ्छतो द्वेष्टि नः __ प्रेयांस्ते स पुनर्वणिक कथमहो ! नानाविचारं जगत् ? ॥१५॥ मल्लिका - अज्जउत्त ! जइ तुमं वणियनामगहणं करेसि ता अहं गमिस्सं । (इति गन्तुमिच्छति) (नेपथ्ये) तिष्ठ भतदारिके ! मा गाः। मल्लिका -'कहं एस तामरसो मं वारेदि ? । (प्रविश्य) तामरसः - तिष्ठ, भर्तृदारिके ! मा गाः। मल्लिका - किं ति ? । १ किमादिशति भगवती ? । २ समयवशेन सर्वोऽपि प्रयत्नः तव मनोरथानुरूप: संवृत्तः । तदनुभव त्वं वरेण समं कौतुककर्माणि । ३ मनोरमे ! कुत्र इदानीं भगवती अम्बा च तिष्ठति ? । ४ यत्र त्वं जानासि। ५ आर्यपुत्र! यदि त्वं वणिग्नामग्रहण करोषि तद् अहं गमिष्यामि । ६ कथं एष तामरसः मां वारयति । ७ किमिति ?। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy