________________
मल्लिकामकरन्दनाटकम् । तामरसः - भगवती गन्धमूषिका देवी चन्द्रलेखा च युवयोरित्यादिशति । उभी - (सविनयम्) किम् ?। तामरसः - अस्ति दक्षिणेन सिद्धायतनस्य तमोराजी नाम कन्दरी । चित्राङ्गदः - ततः किम ? ।
तामरसः - भगवद्वारिषेणपादपद्मोपसेवी कादम्बनामा यक्षाधिपतिः प्रतिमारूपेण तामधिवसति, ततस्तत्र युवाभ्यामागन्तव्यम् ।
चित्राङ्गदः -प्रत्यासीदति लग्नसमयः, किमावयोस्तत्रागमनमुचितम् ? । तामरसः -प्रथमं तत्र लग्नम, अनन्तरमत्र । चित्राङ्गदः - (साक्षेपम् ।) तत् किमावयोर्द्विः परिणयनविधिः ।
तामरस: - कुमार ! सन्देशहरोऽहं नास्य पर्यनुयोगस्य पात्रम, किमत गन्धमूषिका चन्द्रलेखा च ।।
(चित्राङ्गदः मल्लिकामुखमवलोकयति । ) देवलकः - कुमार ! विद्याधराणामीदृशः कुलाचारः। चित्राङ्गदः - कीदृशः?
देवलकः - प्रथमं कन्यकायाः कादम्बकः पाणिं गृह्णाति । ततः पाणिपर्वणोऽनन्तरं वरः।
चित्राङ्गदः - यदि कुलाचारस्तर्हि मुद्रितो विचारप्रचारः। कृतं कालविल. म्बनेन । एते वयमागच्छामः । ( इति सर्वे परिक्रामन्ति ।)
तामरसः - कुमार ! तदिदं सिद्धायतनम् , सेयं दक्षिणतस्तमोराजी ।
चित्राङ्गदः - ( साशङ्कम् ) प्रिये मल्लिके ! कथमिदानी प्रमोदावसरे वाम चक्षुः स्फुरति ?।
तामरसः - अन्धकारप्राग्भारदुर्लक्ष्यविषमोन्नतप्रवेशप्रदेशा तमोराजी, ततः स्थपुटाभिघातेनापि भाव्यम्। चित्राङ्गदः - यद्येतावानेव साम्प्रतमुदः, तर्हि बद्धावधानः प्रवेक्ष्यते । तामरसः - इत इतः ।
(सर्वे मध्यप्रवेशं नाटयन्ति) चित्राङ्गदः - कथं दीपज्योतिषाऽपि न तादृशः प्रकाशो यादृशेन विस्पष्टा रूपव्यक्तिर्भवति ।
तामरसः - कुमार ! इयं भगवती गन्धमूषिका, इयं देवी चन्द्रलेखा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org