SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं इयं मङ्गलकलशाध्यासिता विवाहवेदी, इयं च सम्मुखीना यक्षाधिपतेः प्रतिमा, एतौ च मनोरमा-वैश्रमणौ । ( ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे ।) गन्धमूषिका-वत्स चित्राङ्गद ! वत्से मल्लिके ! प्रणमतां भवन्तौ भगवन्तं यक्षाधिराजम् । (उभौ सबहुमानं प्रणमतः ।) (मनोरमा स्मित्वा मल्लिकामुखमवलोकयति । ) मल्लिका - 'हियय ! समस्सस समस्सस । मणोरहा वि दे इत्तियं भूमि न संपत्ता । वैश्रवणः - भगवति ! अहमिदानीं यक्षस्यानुचरः । मनोरमा-जइ एवं ता भट्टिदारियाए अहयं । चित्राङ्गदः - (सहासम्) भगवति ! किमिदानीं मया विधेयम् ? । गन्धमूषिका - कुमार ! त्वया कपिजलेन च साक्षिणा भाव्यम् । (पुनर्विमृश्य) तामरस ! ब्रज त्वं देवलक-मागधिकाभ्यां सह सौधतलम् । विधेहि कुमारविवाहोचितां सामग्रीम् । (इति तामरसो देवलक-मागधिकाभ्यां सह निष्क्रान्तः ।) (प्रविश्य) बटुः – ( गन्धमूषिकां प्रति ) भगवति ! लग्नसमय इदानीम् । समाप्यतां कौतुकविधिः, प्रतिरुध्यतां कोलाहलः, अवधीयतां झल्लरीझात्कारः।। गन्धमूषिका - चन्द्रलेखे ! विधेहि वधू-वरस्य प्रोक्षणादिकां क्रियाम् । मनोरमे ! उपनय दधि-दूर्वा-ऽक्षतादीनि । ( उभे कुरुतः । ) गन्धमूषिका - वैश्रवण ! परिधापय सदृशान्यंशुकानि यक्षाधिराजम्, बधान मदनकडकं दक्षिणकलाच्याम् ।, (वैश्रवणः सर्वमाचरति ।) गन्धमूषिका - कुमार ! चन्द्रलेखे ! फलार्थदानपूर्वकं उपनयतां यक्षाधिराजाय मल्लिकाम् । चित्राङ्गद : - (प्रणम्य) भगवन् ! परिणय मल्लिकामेताम् । चन्द्रलेखा - भगवन् ! प्रदत्ता मया तुभ्यं वत्सा । तथा प्रसीद यथा यावज्जीवमविधवा भवति । १ हृदय ! समाश्वसिहि । मनोरथा अपि ते इयती भूमि न सम्प्राप्ताः। २ यदि एवं तद् भर्तृदारिकाया अहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy