SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । (नेपथ्ये) एष इदानीं लग्नसमयः। गन्धमूषिका - वैश्रवण ! प्रगुणय यक्षाधिराजस्य दक्षिणं करम् । (चन्द्रलेखां प्रति) त्वं पुनर्मल्लिकायाः । (उभौ तथा कुरुतः।) - (नेपथ्ये झल्लरीझात्कारः।) पुण्याहं पुण्याहम् (-इत्युच्चारयति ।) (चित्राङ्गद-चन्द्रलेखे वधू-वरस्य पाणो योजयतः । मनोरमा मङ्गलानि गायति । ) (प्रविश्य ) देवलकः - (गन्धमूषिका प्रति) भगवति ! चित्राङ्गदलग्नसमय इदानीम् । ततः पाणिमोचनामाधाय त्वरिततरमागच्छत यूयम-इति मौहर्तिकाः शंसन्ति । गन्धमूषिका - ( ससम्भ्रमं चित्राङ्गदं प्रति) उत्क्षिप्य यक्षराजं मल्लिकया सह प्रदक्षिणीकारयत भगवन्तमाशुशुक्षणिम् । चित्राङ्गदः - (तथा कृत्वा) भगवति ! यक्षराजस्य मनुष्यशरीरनिर्विशेषः शरीरस्पर्शः। गन्धमूषिका - कुमार ! स्वर्गभूमिमृत्तिकाभिर्देवनिर्मितेयं प्रतिमा । ततः सम्भाव्यते स्पर्शसौभाग्यम् ! (पुनश्चन्द्रलेखां प्रति) प्रयच्छ यक्षराजाय पाणिविमोचनार्थ किमपि । चन्द्रलेखा - (प्रणम्य) परमेश्वर ! विमुच्च वत्सायाः पाणिम् । दास्यामि तुभ्यं सुवर्णसहस्राभरणम् । यक्षः - (साक्षेपम्) किमिदमकुलीनोचितं व्याहरसि ? किमुचितं सधर्मचारिण्या विमोचनम् ?। सर्वे - (ससम्भ्रमं) कथमयं साक्षाद् यक्षराड् मनुष्यवाचा वदति !। चन्द्रलेखा - (दीपं सन्निधाप्य) कथमेष मकरन्दः ? न कादम्ब: ? । भगवति ! किमिदम् ? । गन्धमूषिका - वैश्रवण ! किमिदम् ? । वैश्रवणः - भगवति ! नाहमप्यवगच्छामि । चित्राङ्गदः - (विषादम्) कपिजल ! किमिदमस्माकं ब्रीडाकरं कर्म ? । कपिजलः - कुमार ! इन्द्रजालमिव दृश्यते । चन्द्रलेखा - (वैश्रवणं प्रति) जातं यद् भाव्यम्, किं मां प्रतारयसि ? । अभयं ते, कथय परमार्थम् । Jain Education International www.jainelibrary.org | For Private & Personal Use Only
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy