________________
महाकविश्रीरामचन्द्रविरचितं
गन्धमूषिका सार्थवाह 2 मा भैषीः । अकुतोभयो भूत्वा प्रथय यथावस्थितां कथाम् ।
वैश्रवणः - अहमनेन मकरन्देन पक्षिभावनरकादुद्धृत्य वाढमुपकृतः । मत्प्रीत्या च मनोरमय भगवती प्रसादिता । भगवत्या च विवाह सूत्रणामुपदिश्य स्थापनाव्याजेन मकरन्दोऽयं मह्यमुपनीतः । मया च कादम्बप्रतिमामपनीय मकरन्दो निवेशितः । अतः परं यदभूत् तद् भवतामपि प्रत्यक्षम् । तदत्र कर्मणि भगवती नापराध्यति, न च मनोरमा, वैश्रवण एव केवलम् । चित्राङ्गदः - महापुरुषकृतज्ञ चूडामणेर्भवतोऽपि कोsपराधः । गन्धमूषिका साधु कुमार ! साधु । महतामयमेव वाचां विक्रमः । यथा भावि पुरा वस्तु तथा सर्वस्य वृत्तयः । इत्यवेत्य महात्मानो नापकारिषु रोषिणः ॥ १६ ॥ (पुनश्चन्द्रलेखां प्रति)
६४
―
Jain Education International
—
वात्याभिर्वा प्रजाभिर्वा प्रभाभिर्वा खरत्विषः । भवेद्यथा तथा ग्रीष्मे सरसः शोषितां भ्रमः ॥ १७॥ यौवने सर्वत्रापि दुहितरो मातुरनायत्ताः । ततचित्राङ्गदे मकरन्दे वा जामातरि कस्ते विशेषः । गुणगोत्राधिक्यभाषणं पुनरनुचितम् ।
पुण्ये गुणश्च गोत्रं च न पुण्यं गुणगोत्रयोः । तद्विचारस्ततः पुंसि पुण्यशालिनि मत्सरः ॥ १८ ॥ मल्लिका संभोगभाग्यं मकरन्दस्य न चित्राङ्गदस्य । ततः कृतं विषादेन । चन्द्रलेखा - भगवतीसूत्रिते कर्मणि को विषादः ।
गन्धमूषिका - ( मकरन्दं प्रति ) कि ते भूयः प्रियमुपकरोमि ।
मकरन्दः अतः परमपि प्रियमस्ति ? | तथापि भगवतीप्रसादानां पर्याप्तकामः ।
गन्धमूषिका - ( सहर्षम् )
जिनपतिपदप्रसादान्न (न्नु) रामचन्द्रांशुकुन्ददलविशदा- । मासाद्य यशोलक्ष्मीं परां स्वतन्त्रां चिरं भूयाः ॥ १९॥ (इति निष्क्रान्ताः सर्वे )
॥ षष्ठोऽङ्कः ॥
॥ समाप्तमिदं मल्लिकामकरन्दानिधानं नाम नाटकम् ॥ कृतिरियं श्री हेमचन्द्राचार्यचरणसुश्रूषाभिरतस्य प्रबन्धशतकर्तुः श्रीरामचन्द्रस्य ।
For Private & Personal Use Only
www.jainelibrary.org