SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् | आपदां स्कन्धमायोज्य स्तब्धाः सर्वत्र मानिनः । राजदण्डं हि पश्यन्तो धनं मुष्णन्ति दस्यवः ||२६|| चित्राङ्गदः - कोऽत्र भोः ! ? । उपनय कृपाणम् । ( प्रविश्य पुरुषः कृपाणमुपनयति । ) मल्लिका - 'मागहिए ! उत्थावेहि मं । अज्जउत्तस्स मयरंदस्स पढमं अप्पाणं वावामि । ( पुनः स्वयमुत्थाय परिकरबन्धमादाय ) अज्जउत्तस्स पर लोगमग्गलग्गस्स एसा अहं पुरोवत्तिणी । मागधिका - कहेमि एवं उवालिंग ( 2 ) गंधमू सियाए । ( इति निष्क्रान्ता । ) चित्राङ्गदः - ( कृपाणमुत्क्षिप्य ) अयमयमुपैषि जिवितान्तं तरुणकृपाणविलूनकण्ठपीठः । स्मर किमपि करालकालवक्त्रभ्रुकुटिकुटीलु टितासुराशु दैवम् ||२७| मकरन्दः ( सरोमाञ्च सविनयं प्रणम्य ) मैत्री प्रमोद - कारुण्य- माध्यस्थ्यमहितोदयम् । स्मरामि क्लेशनाशाय वीतरागपदद्वयम् ||२८|| ५३ मल्लिका ( चित्राङ्गदं प्रति ) महाभाय ! ममं वावासु अणत्थकारिणि, पच्छा एदं । ( इति कन्धरां प्रगुणयति ) ( प्रविश्य ) माकन्दः कुमार ! भगवती गन्धमूषिका त्वामादिशति । चित्राङ्गदः - ( कृपाणं विमुच्य अञ्जलिमाधाय ) किमादिशति भगवती ? | माकन्दः • स्मरसि कामप्यात्मनः प्रतिज्ञाम् ? | - चित्राङ्गदः ( क्षणं विमृश्य ) न कामपि स्मरामि । माकन्दः 'व्यापाद्यः सर्वोऽपि वीतरागप्रतिमामुपदर्श्य व्यापादनीयः ' इति स्मरसि प्रतिज्ञामात्मनः ? | चित्राङ्गदः - अहो ! मन्मथान्धस्य मे प्रमादः, यदहं ह्यस्तनदिनप्रतिज्ञामपि न स्मरामि । ( पुनः सविनयम् ) माकन्द ! ब्रूहि गन्धमूषिकां भगवतीम् - त्रातोऽहं १ मागधिके ! उत्थापय माम् । आर्यपुत्रस्य मकरन्दस्य प्रथमं आत्मानं व्यापादयामि । आर्यपुत्रस्य परलोकमार्गलग्नस्य एषा अहं पुरोवर्तिनी । २ कथयामि एतत् ........ गन्धमूषिकायै । ....... ३ महाभाग ! मां व्यापादय अनर्थकारिणीम् पश्चादेतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy