________________
-
महाकविश्रीरामचन्द्रविरचित ____ मल्लिका - ( सावष्टम्भम् ) 'अज्जउत्त ! मारेदु एस तुमं, जइ तुमए मारिदेणं अहं एदस्स भवामि । __ चित्राङ्गदः - मुग्धाऽसि दुग्धमुग्धनेत्रे ! मुग्धाऽसि । कृतान्तातिथौ कृते सत्येतस्मिन्नवश्यं मे भवती इति । तथा भवत्या अपि नायं मनुष्यकीटः । ततः कोऽयमनात्मनीनो विधिरुपक्रान्तस्त्वया ? ।
मल्लिका - जइ दाणि न भविस्सदि ता जम्मंतरे वि भविस्सदि एस मे पई। ___ कपिञ्जलः - भद्रे ! सरलहृदयाऽसि । भिन्नभिन्नवर्त्मनि सम्भविष्णवः सर्वेऽपि जन्तवस्तैस्तैः शुभैरशुभैर्वा कर्मभिः । विभिन्नरूपदेशानां जन्मान्तरेषु जन्मिनां कस्य केनाभिसम्बन्धः ? । ततो विमुञ्च कदाग्रहम्, प्रतिगृहाण विद्याधरकुमारम्, विलोकय विमानप्रग्रीवाधिरूढा मरूढप्रौढसौभाग्यसम्पदा सरिदर्णव-शिलोच्चय-द्वीपान्तराणां रामणीयकानि ।
(मल्लिका सरोषं तूष्णीमास्ते ।) चित्राङ्गदः - ( सावहेलं मकरन्दं प्रति) विहाय वितथाग्रहं विरम गर्हिताध्वनः
प्रयाहि पदमात्मनः प्रथय जिविकां कामपि । विबोधय कथञ्चन स्मितसरोजनेत्रामिमां
त्रुटद्विकटकन्धरो भवसि किं कृतान्तातिथिः ? ॥२४॥ मकरन्दः - ( सरोमाञ्चम् )
स एष मम सत्पथः पदमियं च मे.मल्लिका
किमन्यदियमेव मे निखिलसम्पदा जीविका । विबुद्धमनया पुनः सह मया प्रयाणं दिवि
स्थरस्व निगृहाण मां परिणय स्वकान्तामिमाम् ॥२५॥ चित्राङ्गदः- ( सरोषम् ) अरे मनुष्यकीट ! वाचाट ! यदेवं मां वक्रोक्तिभिः प्रसभमुपहससि, तदुपस्थितस्ते मत्युकालः ।
मकरन्दः - ( सावष्टम्भम् ) किमिदमयुक्तम् ?
१ आर्यपुत्र ! मारयतु एष त्वाम्, यदि त्वया मारितेन अहं एतस्य भवामि । २ यदि इदानीं न भविष्यति तदा जन्मान्तरेऽपि भविष्यति एष मे पतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org