SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । मकरन्द - ( सावष्टम्भम् ) कपिजल ! मल्लिकाप्रेमजालेन निबद्धावयवस्य मे । भुजयो रज्जुबन्धोऽयं पीडां ब्रीडां करोतु काम् ? ॥२०॥ अपि च मन्यावहे प्रभुरयं जलधिर्विधातुं ___ रत्नान्यधः शिरसि कल्पयितुं तृणानि । तां रत्नतां च तृणतां च निसर्गसिद्धा मेषां पुनः स्थगयितुं नियतं वराकः ॥२१॥ स एष ते पतिमल्लिका-मकरन्दयोर्जीवितमपहर्तुमलम्भूष्णुः, स्वभावसिद्धं हृदयसम्बन्धं पुनरपहत्तु तपस्वी । मल्लिका - ( विलोक्य सास्त्रम् ) 'हा दिव ! किं नेदं ? । अज्जउत्तों मह कारणेणं कीदिसं अवत्थं गदो ? त्ति । मागहिए ! अन्नारिसं किं पि तुमए कहिदं । मागधिका - भट्टिदारिए ! दाणि अप्पा वि मे विम्हरिदो वट्टदि । मकरन्दः प्रिये ! मा रोदीः । कियदेतत् ? । अपरमपि त्वदर्थव्यसनं मे मङ्गलाय । ( मल्लिका तारस्वरं प्रलपति । ) चित्राङ्गदः - अरे मापसद ! जात्यन्तरस्थितवती जनकाप्रदत्ता__ मन्यस्य योषितमिमामवलम्ब्य मोहात् । भाग्यार्जितं विजहतो निजजीवितव्यं स्तोकाऽपि काऽपि न वणिज्यकला तवास्ति ॥२२॥ मकरन्दः - अरे खेचरकीट ! मन्दबुद्धे ! लोकव्यवहाराणामुपरि ल्पवसे ? । प्राणान् कार्यान्तरेणापि गच्छतो हतकानमून् । प्रियार्थ त्यजतो ब्रूहि का न मेऽस्ति वणिक्कला ? ॥२३॥ १ हा देव ! किमिदम् ? । आर्यपुत्रः मम कारणेन कीदृशी अवस्थां गतः ? इति । मागधिके ! अन्यादृशं किमपि त्वया कथितम् । २ भर्तृदारिके ! इदानीं आत्माऽपि मया विस्मृतो वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy