________________
महाकवि श्रीरामचन्द्रविरचितं
मल्लिका - 'जइ अंगलच्छि वणियम्मि निक्खेवेमि ता वियड्ढजणमणस्स विसाओ । अह तुमम्मि निक्खेवेमि ता मह मणस्स । किंच - सव्त्रस्स वि जणस्स अप्पा वल्लहो, न उण परो । ता तुमं ज्जेव कहेसु, किं दाणिं करेमि ? | चित्राङ्गदः - किमेताभिर्वक्रोक्तिभिः ? । अवलम्बरव दीर्घदर्शिताम् । विचिन्तय विद्याधरलक्ष्मीसौभाग्यम् । अनुतिष्ठ यदभिधत्ते जनयित्री । ( मल्लिका निःश्वस्य तूष्णीमास्ते । )
कपिञ्जलः - स्वामिनि ! प्रत्युत्तरेण प्रसीद |
( मल्लिका सरोषमास्ते । )
५०
चित्राङ्गदः - ( सदैन्यम् )
अयि कुवलयनेत्रे ! देहि वाचं प्रसीद प्रणयिषु वद मुग्धे ! कोsप्रसादापवादः ? । स्वयि सुदति । वदन्त्यां जीवितं यौवनश्रीललितमथ धनं वा चारिमा वा मुदे नः ॥ १८ ॥ मागधिका - कुमार ! 'अपाण लाहवं चिय विरम विसेसेसु अणुणयपराणं । बंधुअणचाडणेण य न णाम जीवंति गयपाणा ॥ १९ ॥
कपिञ्जलः - कुमार ! सत्यमाह मागधिका । तदिदानीं विरम्यतेऽमुष्मादध्यवसायात् । परिणयतामियं वणिजम् । अनुभवतु मनुष्यदास्यम् । ( चित्राङ्गदः कपिञ्जलस्य कर्णे एवमेव । ) ( कपिञ्जलो निष्क्रान्तः । )
चित्राङ्गदः - ( साक्षेपम् ) मल्लिके ! कीदृशस्ते मनोनिश्वयः ? । मल्लिका - 'मयरंदं परिणेमि, न तुमं, एस मे निच्छओ ।
( ततः प्रविशति करालेन गृहीतकेशपाशः सन्दानितभुजो मकरन्दः कपिञ्जलश्च । )
१ यदि अङ्गलक्ष्मीं वणिजि निक्षिपामि तदा विदग्धजनमनसः विषादः । अथ त्वयि निक्षिपामि तदा मम मनसः । किञ्च - सर्वस्य जनस्य आत्मा वल्लभः, न पुनः परः । तत् त्वमेव कथय, किमिदानीं करोमि ? |
२ आत्मनां लाघवमेव विरमस्व विशेषेषु अनुनयपराणाम् । बन्धुजनचाटनेन च न नाम जीवन्ति गतप्राणाः ||१९|| ३ मकरन्दं परिणयामि, न त्वाम् एष मे निश्चयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org