________________
मल्लिकामकरन्दनाटकम् । यदेवं प्रतिमुहुः परिणयनसमुत्सुकोऽहमेव, न पुनरेषा योषित् ।
( मागधिका विलोक्य सिंहासनमुपनयति ।) चित्राङ्गादः -( समुपविश्य मल्लिका प्रति ) मिथ्याग्रहं शिथिलय ग्रथिले ! निरुध्य
क्रोधं विचारपदवीषु मनो निधेहि । विद्याधराः क च नभोभवनावचूलाः ?
_स्मराक्षि ! भूमिकृमयः क च ते मनुष्याः ? ॥१५॥ मल्लिका - (सरोषम् ) 'नहोभवणावंचूलत्तं पक्खीणं पि सुलहं, किं दाणि तेण ? । सोहग्गं खु मिहुणनिबंधणं, तं पुण तुहं नत्थि ।।
चित्राङ्गदः - पक्षिकल्पोऽहम् ? दुर्भगश्च ?।
मल्लिका - ( सखेदम् ) कहिदं मए। किं पुणो पुणो पुच्छसि । न सक्केमि तुमए मूलमहिसेणं समं खुहा-पिवासाहिं किलंता पुणो पुणो मंतिदूं।
( कपिञ्जलः सलज्जमधोमुखो भवति ।) चित्राङ्गदः - मां मल्लिके ! कृसुमबाणमपास्य हास्य
व्रीडा-विषादजनक वणिज श्रयन्ती । प्रायेण नीचरतयो वनितास्तमेनं
__ लोकप्रवादमविवादमिहाऽऽद्धासि ॥१६॥ मल्लिका - 'लोयपवायं निच्छियं करेमि पमाणं । तुमं पुण भंजेसि । परमहेलं मं अहिलससि । चित्राङ्गदः - ( सोपालम्भम् ) स्पृहयति पुरुहूतस्यापि यां वामनेत्रा
त्रिभुवनमहनीयां तामिमामङ्गलक्ष्मीम् । वणिजि कृपणरत्ने निक्षिपन्ती मृगाक्षि !
प्रथयसि चतुराणां किं विषादं मनस्सु ? ॥१७॥ १ नभोभवनावचूलत्वं पक्षिणामपि सुलभम्, किमिदानीं तेन ! । सौभाग्यं खलु मिथुननिबन्धनम्, तत् पुनः तव (त्वयि) नास्ति ।
२ कथितं मया । किं पुनः पुन: पृच्छसि ? । न शक्नोमि त्वया शूलमहिषेण समं क्षुधापिपासाभ्यां क्लान्ता पुनः पुन: मन्त्रयितुम ।
३ लोकपवादं निश्चितं करोमि प्रमाणम् । त्वं पुनः भनक्षि। परमहिलां मां अभिलषसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org