SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४८ महाकविश्रीरामचन्द्रविरचितं तामरसः - भर्तृदारिके ! मियानुरोधाद बध्नाति विप्रियेऽपि जनो मनः । पङ्कभाजोऽपि हर्षाय वर्षाः सस्याभिलाषिणाम् ॥११॥ ततो मातुरनुरोधेन बधान विप्रियेऽपि चित्राङ्गदे हृदयम् ।। मल्लिका - 'अज्ज तामरस ! जं तुमं भणासि तं ज्जेव अहं कुर्णती चिट्ठामि । तामरसः - ( सप्रमोदम् ) किं तत? । मल्लिका - अज्जउत्तस्स मयरं दस्स अणुरोहेण विप्पियत्थे वि मरियन्वे बद्धं मे हिययं । चन्द्रलेखा - ( सदुःखमात्मगतम् ) अकृत्यं फलवद येषां तेऽप्यश्लाघ्या महात्मनाम् । नाम तेभ्यः पुनर्येषामकृत्यमपि निष्फलम् ॥१२॥ इदं तावन्मदीयमश्लाघ्यं यत् किरातसम्बन्धेन गर्भसम्भूतिः । इदानीं पुन: स्वेच्छया दुहित-जामातृसुखमपि नास्ति । (प्रकाशम् ) तामरस ! विरम विरम वचनक्लेशात्, अतः परं पतिरेवास्याश्चित्राङ्गदः सर्वमाधास्यति । (नेपथ्ये) अत्रार्थे कः सन्देहः ?। चन्द्रलेखा - कथं प्राप्त एव कुमारः ? । तदेहि तामरस ! भगवतीं गन्धमषिकां पश्यामि । ( इति सतामरसा निष्क्रान्ता ।) ( ततः प्रविशति चित्राङ्गदः कपिञ्जलप्रभृतिकश्च परिवारः । ) चित्राङ्गदः - ( सविषादम् ) दम्पत्योः पाक्षिकात् प्रेम्णः प्रेमाभावः सुखावहः । एककर्णस्थताडङ्कादताडकं मुखं वरम् ॥१३॥ तदिदानीं निष्प्रेमाणमेतां वनितामभिलपतो मनःप्रयासमात्रमेव परमार्थः। (पुनः सकौतुकम् ) यथा पुंसां स्त्रियः स्त्रिणां पुमांसो विषयस्तथा । तथापि सत्वराः प्रायः पुमांसो न पुनः स्त्रियः ॥१४॥ १ आर्य तामरस ! यत् त्वं भणसि तदेव अहं कुर्वती तिष्ठामि । २ आर्यपुत्रस्य मकरन्दस्य अनुरोधेन विप्रियार्थेऽपि मर्तब्ये बद्धं मे हृदयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy