SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । यद्यतः परं क्षुत्पिपासाक्लान्ताया भर्तृदारिकायाः किमप्यमङ्गलं जायते तदानीं महान् जनापवादः। चन्द्रलेखा - ( साक्षेपम् ) भूयांसोऽपवादाः सन्ति । अयमपि तेषामेकदेशे निषीदतु । तामरसः - ( स्वगतम् ) परित्यक्तसतीव्रतायाः कर्मशचेतसोऽस्याः काऽपवादाभिशङ्का ?। तामसी जनुषाऽन्धस्य यदिन्दु-तपनावपि । भग्नब्रह्मव्रतस्यैवं कृत्या-ऽकृत्यातिगं जगत् ॥९॥ चन्द्रलेखा - स्वैरवृत्तितया तावदहं ज्ञातिलोकेन बहिष्कृता, तदतः परमपवादः कमपरमपायमुपनेष्यते ? । तामरसः - ( स्वगतम् ) सत्यं महादेवी, अभिशकते जनोऽयं जनापवादादपायसञ्जनकात् । अपरं जनापवादं तु मन्यते व्योमपुष्पमिव ॥१०॥ ( प्रकाशम् ) देवि ! दुहितरि न चित्तकठोरभाव [उचितः] । चन्द्रलेखा - वत्से ! किं मां मातरमात्मीयामवजानासि । प्रतिपद्यस्व माम् । प्रवर्तस्त्र स्वकर्तव्ये, येन तदुचितां सामग्री करोमि । ___ मल्लिका - (सरोषम् ) 'पडिवन्ना तुम मए वेरिणी । पयट्टाऽहं कायव्वे मरणे ! करेहि मरणसमुचिदं सामग्गि । चन्द्रलेखा - ( साक्षेपम् ) आः पापे ! निनिमित्तवैरिणि ! निरनरोधे ! कृतघ्ने ! त्वामहं गर्भे दधाना पितृ-श्वसुरकुलाभ्यां निर्वासिता सती निर्मानुषप्रचारे वनेचरवृत्त्या रत्नसानौ क्लेशमनुभवामि । तदिदानी एवं मां वक्रोक्तिभिरुत्तेजय सि ?। मल्लिका - 'अंब ! नाहं किलेसकारणं, किंतु अणायारो कारणं । चन्द्रलेखा - ( तामरसं प्रति ) पश्यन्नसि दुहितुर्मम मर्मोद्घटनाम् । मागधिका - ( सरोषं मल्लिका प्रति ) भट्टिदारिए ! पडिहदा सि तुमं । जुत्तं ते जणणीपवायपसंसणं ?। १ प्रतिपन्ना त्वं मया वैरिणी । प्रवृत्ताऽहं कर्तव्ये मरणे । कुरु मरणसमुचितां सामग्रीम् । २ अम्ब ! नाहं क्लेशकारणम्, किन्तु अनाचारः कारणम् । ३ भर्तृदारिके ! प्रतिहताऽसि त्वम् । युक्तं ते जननीप्रवादप्रशंसनम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy