________________
महाकविश्रीरामचन्द्रविरचित मल्लिका - 'मागहिए ! न मे को वि पिसुणो जणो, अहं ज्जेव सव्वस्स पिसुणा । अवि य -
अवगणियव्वा वल्लहसुहत्थिणा पिसुणलोयसंतावा । मंडणलोलाउ सहति दंतचूडापवेसदुहं ॥७॥ किंच - जं कि पि अंबाए चंदलेहाए समीहिदं तं करोमि ।
(नेपथ्ये) 'वच्छे ! किं समीहिदं ?। मागधिका- ( विलोक्य ) कधं देवी चंदलेहा ?।
(प्रविश्य तामरसेन दत्तहस्तावलम्बा ) चन्द्रलेखा - वच्छे ! किं समीहिदं ? । मल्लिका - मह मरणं । चन्द्रलेखा - (सविषादं तामरसं प्रति ) मेघानां तदशेषतापहरणं तत् पूरणं जाह्नवी
मुख्यद्वीपवतीशतस्य तदथ प्रारोहणं भूरुहाम् । तेनैकेन वराकचातकतृषामध्वंसनेनाभवद्
यदवृद्धयर्थमहो ! गुणौघविमुखो दोषैकदृष्टिजनः ॥८॥ तत् तादृशं गर्भोद्वहन-प्रसवक्लेशवैशसम् , तदश्रद्धेयं महापुरुषस्य ब्रह्मदत्तस्य वेश्मनि परिपालनार्थ मोचनम् , स एष राजलक्ष्मीविशेषकेण विद्याधरकुमारेण संयोजनप्रयासः, सर्वमेतेन वणिक्कीटवियोजनेन विफलतां नयति सैषा मे पुत्री मल्लिका।
तामरसः - ( अपवार्थ ) देवि ! शिथिलयतु उचितश्चित्राङ्गदसङ्गमाग्रहः । १ मागधिके ! न मे कोऽपि पिशुनो जनः, अहमेव सर्वस्य पिशुना । अपि च
अवगणयितव्या वल्लभसुखार्थिना पिशुनलोकसन्तापाः । मण्डनलोलाः सहन्ते दन्तचूडाप्रवेशदुःखम् ॥७॥ किञ्च - यत् किमपि अम्बायाश्चन्द्रलेखायाः समीहितं तत् करोमि । २ वत्से ! किं समीहितम् ? । ३ कथं देवी चन्द्रलेखा ? । ४ वत्से ? किं समीहितम् ? । ५ मम मरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org