SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमोऽङ्कः॥ ( ततः प्रविशति मनोरमा ।) मनोरमा - ( सप्रमोदम् ) 'जीवदु चिरं मयरंदो, जेण एसा मे पइभिक्खा दिन्ना । ता दाणि मए मयरंदस्स वि पाणेहिं पि पियं कायव्यं । तदो तहा कहं पि अंबं गंधमूसियं पसादइस्सं जधा सा मयरंदस्त मणोरहं संपाडेदि। भणिदं च अज्ज-: उत्तण वेसमणेण-गच्छ तुम, जधा विन्नवेसु अंबाए गंधमूसियाए पणामकहणपुव्वं तुह वुत्तं । तं दाणि तहिं गच्छामि । ( इति पुराऽवलोक्य ) कधं देवलओ एदि ?। (ततः प्रविशति देवलकः ।) देवलकः - ( सविषादम् ) असन्तृप्ता विपद्यन्ते विभवस्य विपश्चितः । रतस्य राजकामिन्यः स्वस्थस्य खलसेवकाः ॥१॥ वृथा मह्यं देवी चन्द्रलेखा कुप्यति । किमहं महात्मानमेनं निरागसं मकरन्दं व्यापादयितुं शक्रोमि ? भर्तृदारिकां मल्लिका कशाभिरभिताडयितुं प्रभवामि ?, यदि च देवी चन्द्रलेखा प्रातिकूल्यमनयोरुद्वहति तदानीमनार्य कर्म स्वयमेव कथं, नाचरति ?। ( पुनः सकौतुकम् ) न रवेः कुमुदानि सुधाकरे [च] कमलानि दधति सङ्कोचम् । दग्धानां सरसीनां यथा तथा व्यसनमाकालम् ॥२॥ यदि मल्लिका चन्द्रलेखामनुकूलयति तदा मकरन्देन वियुज्यते । अथ मकरन्दमनुनयति तदा चन्द्रलेखया कदर्थ्यते । तदवश्यमनया मर्तव्यम् । मनोरमा - 'अज्ज देवलय ! केण मरियव्वं ? । १ जीवतु चिरं मकरन्दः, येन एषा मे पतिभिक्षा दत्ता । तद् इदानीं मया मकरन्दस्यापि प्राणैरपि प्रियं कर्तव्यम् । ततः तथा कथमपि अम्बां गन्धमृषिका प्रसादयिष्यामि यथा सा मकरन्दस्य मनोरथं सम्पादयति । भणितं च आर्यपुत्रेण वैश्रमणेन-गच्छ त्वम् , यथा विज्ञपय अम्बाय गन्धमूषिकायै प्रणामकथनपूर्व तुभ्यं उक्तम् । तद् इदानीं तत्र गच्छामि । कथं देवलक ऐति ? । २ आर्य ! देवलक ! केन मतव्यम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy