SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित देवलकः - भर्तृदारिकया मल्लिकया । मनोरमा -'किं ति ?। देवलकः - पानाऽशनत्यागात् । मनोरमा - ( सभयम् ) मल्लियाए ईदिसो अणत्थो वट्टदि ? । देवलकः - अनर्थ इति किमुच्यते ?, चन्द्रलेखायां विरुद्धायां यज्जीवति मल्लिका तत् कौतुकम् । वडवामुखे महौजसि विरामविमुख ज्वलत्युदरधान्नि । क्षारत्वं कियदुदधेः शुष्यति यनैष तच्चित्रम् ॥३॥ तद् व्रजाम्यहं देव्यादेशेन चित्राङ्गदमाकारयितुम् । मनोरमा - 'अज्ज देवलय ! कहं उण एसा मल्लिया पंचबाणसमाणरूवं पि विज्जाहरं वरं न पडिवज्जदि ? । देवलकः - ( साक्षेपम् ) मनोरमे ! बहिर्मुखाऽसि प्रेमकथानाम् । यद यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ॥४॥ अत्रार्थे चित्राङ्गदः पुनरुपालभ्यः, यः प्रेमविमुखां स्त्रियमभिलपन्नात्मानं क्लेशयति । मनोरमा - *साहु जंपिदं तुमए, जम्मंतरलक्खपरूढदुक्खरुक्खस्स तिन्नि साहाओ । सेवा खलेसु विहवो परेसु पिम्मं अपिम्मेसु ॥५॥ पद्यते १ किमिति । २ मल्लिकाया ईदृशः अनर्थो वर्तते ? । ३ आर्य देवलक! कथं पुनः एषा मल्लिका पञ्चबाणसमानरूपमपि विद्याधरं वरं न प्रति। ४ साधु जल्पितं त्वया, जन्मान्तरलक्षप्ररूढदुःखवृक्षस्य तिस्नः शाखा: । सेवा खलेषु विभवः परेषु प्रेम अप्रेमसु ॥५॥ अपि च-यत् किल उल्लसति दृढं अनुरागपराङमखेष अनरागः । तदेव विषं विषं पुनर्मथनभवं तस्य प्रतिबिम्बम् ॥६॥ तदिदानीं कथय-कुत्र मल्लिका वर्तते ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy