SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ महाकवि श्रीरामचन्द्रविरचित चित्राङ्गदः - (स्वगतम् ) उपहसति मामयं दुरात्मा वणिकीटः । तदिदानीमेव करोमि कृतान्तातिथिम् । अथवा नयामि मल्लिकायाः समीपम् । पश्यन्त्याश्च तस्यास्तरवारिणा पातयाम्यस्य मूर्धानम्, येन सा प्रतिभयेन मां प्रतिपद्यते । यदि वा सामप्रयोगसाध्ये [न] दण्डप्रयोगः । ततः प्रथममुपशान्तयाम्येनम् । ( प्रकाशम् ) महाभाग ! ४२ शब्दाः कथञ्चित् सर्वेऽपि बाह्यवाच्यावगाहिनः । ored धैर्यमित्येष शब्दस्त्वात्मैकगोचरः ॥२३॥ ततो विस्मिता वयं तवामुना मनःसौष्ठवेन । तदतः परं मित्रमसि नः । यन्मित्रोचितं तदस्मासु विदध्याः । मकरन्दः (स्वगतम् ) कर्पूरप्रभवस्यापि प्रदीपस्यासिता मषी । विद्विषो विनतस्यापि प्रियमायाति विप्रियम् ||२४|| ( प्रकाशम् ) महापुरुष ! वयमपि विस्मितास्तवामुना मनः सौष्ठवेन । तदतः परं मित्रमसि नः । यन्मित्रोचितं तदस्मास्वपि विदध्याः । चित्राङ्गदः अरे मनुष्यापसद ! निर्व्याजमपि सव्याजं व्याहरसि 2, अनुभवेदानी कुटिलतायाः फलम् । एषा समाप्यते ते जीवितकथा । कोऽत्र भोः ? | ( प्रविश्य कृपाणपाणिः ) I 1 पुरुषः - एषोऽस्मि । चित्राङ्गदः - अरे कराल ! केशैर्गृहीत्वा दुरात्मानमेनं शिविरमुपनय । वयaft गन्धमूषिकाया आश्रमे वामः । ( इति निष्क्रान्ताः सर्वे । ) ॥ चतुर्थोऽङ्कः ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy