SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् | कपिञ्जल : - कुमार ! कस्मै उपनयामि ? नाऽऽस्ते पजरे शुकः । चित्राङ्गदः - ( सभयम् ) किमिदानीमुत्तरं विधेयमस्माभिश्चन्द्रलेखायाः । ( पुनः सम्मुखीनं मकरन्दमवलोक्य) कपिञ्जल ! कोऽयम् ? । कपिञ्जलः :- ( वेषमवलोक्य ) कुमार ! सोऽयं युष्मत्प्रेमप्रत्यूहः । चित्राङ्गदः ( सरोषम् ) अरे ! कस्त्वम् ? | - मकरन्दः ( स्वगतम् ) अहं वणिग्मात्रमेकाकी च । अयं विद्याधरः सपरिच्छदश्च । स्त्रीनिमित्तं च वैरम् । तदवश्यमेव उपस्थितो मे मृत्युकालः । तदिदानीं किं दैन्यजल्पितैः ? । अपि च मानिनो मानिनस्तावद् यावद यान्ति न दीनताम् । संसदेत न बन्धं यः केशरी केशरी हि सः ॥ २१ ॥ (प्रकाशम् ) त्वमपि हि कः ? । चित्राङ्गदः - ( सक्रोधम् ) अरे वाचाट किराट ! मां पृच्छसि ? अहं विद्याधरकुमारश्चित्राङ्गदः । - मकरन्दः (साक्षेपम् ) अहं तर्हि विद्याधरचक्रवर्त्तिकुमारो मकरन्दः । कपिञ्जलः - अरे वणिक्कीट ! शौण्डीर्यमेदुरांसस्थलेन क्षत्रवंशावचूलेन कुमारेण सह स्पर्धसे ? | मकरन्दः - अरे पदातिसारमेय ! अनभिज्ञोऽसि परमार्थवर्त्मनाम् । वर्णानपेक्षं शौण्डीर्यं सत्त्वमात्रे निषीदति । सत्त्वं तु वणिजेsपि स्यान्न स्यात् क्षत्रेऽपि न ( ? च) क्वचित् ॥ २२॥ चित्राङ्गदः ( सरोषम् ) अरे मुखर ! मत्प्रियामभिलषतस्ते दैवं प्रति -- Jain Education International ४१ -- कूलम् । मकरन्दः ( सरोषम् ) तवापि मत्प्रियामभिलषतो देवं प्रतिकूलम् । चित्राङ्गदः ( नेपथ्यमुपलक्ष्य) अरे ! मत्प्रियाया नेपथ्यं परिदधतस्ते प्रत्यासीदति मृत्युसमयः । मकरन्दः ( सोपहासम् ) अमुनैव नेपथ्यलाभेन निश्चितं मया सा प्रिया तत्रभवतो भवतः, न पुनर्मम । ६ For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy