________________
महाकविश्रीरामचन्द्रविरचितं मकरन्दः - किं तत् ? । शुकः - भूमिजातस्य करस्पर्शः। मकरन्दः - कथं तर्हि अशक्यानुष्ठानम् ? । शुकः - इह खेचरगिरौ भूमिजन्मनोऽसम्भवात् । मकरन्दः - यद्यप्यसम्भाव्यस्तत् कथमहमत्र ? ।
शुकः -आर्य ! किं नामालीकाश्वासनाभिः प्रतारयसि ? विद्याधरवेषदर्शनादेव ज्ञातम्- न भवान् भूमिजन्मा ।।
(मकरन्दः विहस्य शुकं पञ्जरादाकर्षति ।) शुकः - ( आत्मानमवलोक्य ) कथं वैश्रवणोऽस्मि ?। (पुनः सविनयम् ) आर्य ! निष्कारणवत्सल ! त्वयाऽहमेवमुपकृतः कं प्रत्युपकारमादधामि ? ।
मकरन्दः - अयमेव साम्प्रतं प्रत्युपकारः, व्रज त्वं सिद्धायतनम् । अन्यथा यदि चन्द्रलेखा समायास्यति तदानीं कमप्यपायमाधास्यति । मनोरमादर्शनमपि तत्र स्थितस्य सम्भाव्यते । अहमपि सौधमध्यमवलोक्य समागत एव ।
(शुको निष्क्रान्तः । )
(नेपथ्बे) कपिजल ! शुकार्थ गृहीतानि दाडिमप्रभृतीनि फलानि त्वया ? ।
मकरन्दः - ( साशङ्कम् ) कथं सा चन्द्रलेखाऽभ्युपैति ? । ( पुनः सभयम् ) भूयो भूयो वामाक्षिस्फुरणमपायं महान्तं पिशुनयति ।
(नेपथ्ये) कपिजल ! उपनीतवस्त्राभरणा प्रिया किमस्मासु पतिपद्यते ? । कपिञ्जल: - कुमार ! तत् प्रतिपद्यते यद वैरिषु । मकरन्दः – यथाऽयं परुषस्वरस्तथा निश्चितममुना चित्राङ्गदेन भाव्यम् ।
( नेपथ्ये) तत् तावदास्तां कामिन्यो न यत् साध्या धनैर्विना ।
धनैरपि न यत् साध्या तत्र किश्चिद विचिन्त्यताम् ॥२०॥ मकरन्दः - ब्रजामि निरपायं सद्धायतनम् ( इति परिकामति ।)
(ततः प्रविशति कपिञ्जलदत्तहस्तावलम्बश्चित्राङ्गदः ।) चित्राङ्गदः -कपिजल ! उपनय शुकाय फलानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org