SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३९ मल्लिकामकरन्दनाटकम् । शुकः - इदानीं सा वैभलनगरतः समागताया गन्धमूषिकाभिधानायाः परिवाजिकाया आश्रमे सपरिवारा तिष्ठति । मकरन्दः - यदि वैभलनगरतः समायाता परिव्राजिका तहि सा तवापि परिचिता सम्भाव्यते। शुकः - ( निःश्वस्य ) पब्जरस्थस्य मे परिचयः किं कुरुते ? । मकरन्दः -साम्प्रतं पानाशनचिन्तां कस्ते करोति ? । शुकः - प्रत्यासन्नशिबिरनिवासी खेचरीप्रार्थितश्चित्राङ्गदः कुमारः । मकरन्दः - महाभाग ! सम्पत्तिरस्य रोहन्ती भाग्यानां मुखमीक्षते । स्वशक्तितोलनं नाम माहात्म्यं तु महात्मनाम् ॥१५॥ ततो यद्यस्य पापीयसः पर्वणः किमपि प्रतिविधानमस्ति तदा प्रकाशय, येन स्वशक्तिमाविष्करोमि। शुकः - ( सनिर्वेदम् ) अर्थित्वमेकं नीचत्वमर्थित्वमनीचता । दोषा गुणाश्च ये त्वन्ये ते कुटुम्बकमेतयोः ॥१६॥ अपि च - तृणेष्वपि गवादीनां वेधसा वीक्ष्य गौरवम् । एकान्तलघुपक्षार्थमर्थिनो निर्मिताः पुनः ॥१७॥ तदहमत्रार्थे न किमपि त्वया वक्तव्यः । पक्षिभाववैशसात् परप्रार्थनावैशसं पापीयस्तरं मे प्रतिभाति ।। मकरन्दः - महाभाग ! परमार्थमभिहितवानसि । अर्थी पिताऽपि सन्तापमाधत्ते किं पुनः परः ? । पीयूषसागरस्यापि पूरः प्लावयति प्रजाः ॥१८॥ किन्तु - अर्थित्वेऽपि वयं तत्र जानीमो गौरवं परम् । यत्रार्थलाभः कोऽपि स्यात् परकार्यक्रियाक्षमः ॥१९॥ तदलं विषादेन । शुकः - अस्ति प्रतिविधानम् , परमशक्यानुष्ठानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy