________________
महाकविश्रीरामचन्द्रविरचितं
मकरन्दः - ततस्ततः ?।
शुकः - पारपरूढप्रौढनानाजातीयवानेयवृक्षदिदृक्षया यानपात्र[स्थया मनोरमया समं भूमौ समुत्तीर्णवान् ।
मकरन्दः - ततस्ततः ? ।
शुकः - विलोकयंश्च कोकिलाकुलकुलायसमृद्धकक्षान् अनेकतिलक-चम्पक -पुन्नागनागमाग्रहरान् उपत्यकावृक्षान् , एकामनेकानर्यप्रसाधनप्रभामाग्भारदुरवलोकावयवविवेकामधुजरती वनितामपश्यत् ।
मकरन्दः - अहो ! कौतु[क]कारी कथासन्निवेशः।
शुकः - उदीरितः स्वगतश्च परमादरं दर्शयन्त्या तया स्वभवनमिदमानीतः । अनुकूलितश्च तैस्तैश्चाटुकारैः तैस्तैर्दिव्यफलरसाहारै तेस्तैरनेकदर्शनीयदिव्यप्रदेशोपदर्शनैः तैस्तैः खेचरजनोचितप्रसाधनविधानैः कियन्त्यपि दिनानि ।
मकरन्दः - ( सत्वरम् ) ततः किम् ?।
शुकः - एकदा च धवलयति सौधांसवे महसि दिक्चक्रवालं चन्द्रशालायां पर्यङ्कनिषण्णस्तया वृषस्यन्त्या सम्भोगार्थमत्यर्थमभ्यर्थितः ।
मकरन्दः - ( सजुगुप्सम् ) अनुचितमतः परं श्रोतुम् । कथाऽपि पापीयसां पुंसां महते कलुषाय प्रभवति, तथापि व्याहर । अनिर्वहणे हि प्रारम्भो नीचतां प्रकाशयति ।
शुकः - स च वीतरागवचनश्रवणपवित्रितात्मा परदारपरिहारव्रतमनुरुन्धानो रिम्सुमपि तां दूरमपकर्णितवान् ।
मकरन्दः - ( सानन्दम् ) स्तुत्यचरितोऽसि वैश्रवण !, एष ते प्रणामार्थ बद्धोऽजलिः।
शुकः - अनन्तरमसौ ' तदात्वपल्लवितकोपाटोपपाटलाक्षी -'अरे पाप ! यावज्जीवमनुभव पञ्जरचारकाधिवालवैशसम्, परिपालय परदारपरिहारव्रतम्' -इति व्याहरन्ती केनापि चूर्णप्रयोगेण तं महात्मानं शुकं कृतवती । स चाहं दैवहतकः । तां पुनर्मनोरमां प्रथमदिवस एव पुरुषाकारधारिण्याः स्वदुहितुः परिचारिकां विहितवती।
मकरन्दः - सा पुनरिदानी खेचरी क्व वर्तते ?।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org