SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । ( पुनः सजुगुप्सम् ) गीतमपि रक्तकण्ठैरुद्घटितं प्रीतये किल न येषाम् । पाषाणसोदराणां तेषामेषोऽञ्जलिर्बद्धः ॥१२॥ (पुरोऽवलोक्य) कथमितः खेचर शिविरसन्निवेशः कोऽपि ? । ( वामाक्षि - स्फुरणमभिनीय. ) निश्चितमत्र तेन चित्राङ्गदेन भाव्यम् । तदन्यतो व्रजामि । ( इति परिक्रम्य ) कथमिदं सर्वतो माणिक्यप्रभापुञ्जपिञ्जरितदिगन्तरं निर्मानुषप्रचारं पुरः सौधम् ? । भवतु, प्रविश्य विलोकयामि । ( नेपथ्ये ) महाभाग ! निवर्त्तस्व निवर्त्तस्व । केन दुष्टदैवेन प्रेरितो महापापनिधानं सौधमिदमधिरोहसि ? - मकरन्दः ( सकौतुकम् ) कथमयं सौधाङ्गणपञ्जरस्थः शुको व्याहरति । । तत् कथं वामाक्षिस्फुरणमपीदमस्माकं शुभोदर्काय ? | असम्भाव्यार्थलाभान्ता विपत् सम्पत्तिसोदरा | विषं हि व्याधिविध्वंसि पीयूषप्रतिहस्तकः ॥ १३ ॥ ( ततः प्रविशति यथानिर्दिष्टः शुकः 1) शुकः भो भो महाभाग ! निवर्तस्व निवर्तस्व । ३७ - Jain Education International मकरन्दः ( सावष्टम्भम् ) भोः ! मा भैषीः, विश्रब्धं ब्रूहि । स्व-परापायनिवर्त्तनक्षमोऽहम् । ततो यदि शकुन्त एव त्वं षटुचदुव्याहारस्तदानीं किमाश्रर्यम् ? | अथ व्याजान्तरं किमपि तदा प्रकाशय परमार्थम् । पर्याकुलोऽस्मि श्रवणोत्कण्ठया । शुकः - व्याजान्तरमेवेदम्, प्रतीकारासम्भवेन पुनरप्रकाश्यम् । मरकन्दः – ममाल्पत्वदर्शनेन प्रतीकारसम्भवमभिदधासि तदा भ्रान्तोऽसि । .] कर्म तदादधाति अत्यद्भुतं [.. स्वल्पोऽपि कोऽपि महतामपि यन्न साध्यम् । कर्पूरपूरणविधेरधिकां वहन्ति - ताम्बूलतो वदनवारिरुहाणि लक्ष्मीम् ॥ १४॥ शुकः - समाकर्णय तर्हि - वैभलनगरनिवासी वैश्रमणनामा सांयात्रिको मनोरमया सधर्मचारिण्या समं महार्घ्य - विचित्रभाण्डनिभृतं यानपात्रमधिरूढः । For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy