SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३ महाकविश्रीरामचन्द्रविरचित मकरन्दः - ( साश्चर्यम् ) प्राणानपि विमुश्चन्ति निबद्धप्रीतयः स्त्रियः । विद्वांसोऽपि जुगुप्सन्ते तास्तथापि कुतूहलम् ॥६॥ (आत्मवेषमवलोक्य ) एवंविधेनापि दिव्याकल्पनेपथ्येन हृदयभेदिना व पटुना चटुसहस्रेण मल्लिका चित्राङ्गदं न कामयते । ताः सन्ति किं न शतशः ? शतशोऽपि पुम्भि रभ्यर्थिताः स्मरपदानि न याः स्मरन्ति । ते सन्ति नैव पुनरेणविलोचनानां नाम्नाऽपि ये प्रतिकलं विलयं न यान्ति ॥७॥ ( ऊर्ध्वमवलोक्य ) ललाटन्तपनस्तपनो बाधतेऽङ्गानि, मर्मभेदी धर्मः विरहानलश्च । भवतु, क्षणमेकमुद्यानकेलिसरःकूलकच्छेषु विहरामि । (इति परिकामति । समन्ततोऽवलोक्य सहर्षम् ) दात्यूह-कुर्कुट-कपिजल-चक्रवाक.. सारङ्ग-भृङ्गकलकूजितमञ्जुकुजाः । उद्यानकेलिसरसीतटफुल्लमल्लीवल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥८॥ . (पुनर्मल्लिका स्मृत्वा सौत्सुक्यम् ) आस्यं हास्यकरं शशाङ्कयशसा बिम्बाधरः सोदरः पीयूषस्य वचांसि मन्मथमहाराजस्य तेजांसि च । दृष्टिर्विष्टपचन्द्रिका स्तनतटी लक्ष्मीनटीनाटयभू रौचित्याचरणं विलासकरणं तस्याः प्रशस्यावधेः ॥९॥ अपि चेदानी वियोगरोगाभितापविक्लवायाः प्रियायाः - वक्त्रं पाणिमिलत्कपोलफलकं नेत्रे च पद्माम्बुजे गात्रेषु प्रतिकर्म जर्जर[र ?]सं वाचः श्लथार्थान्वयाः। तस्याः स्मेरसरोजसुन्दरदृशः शङ्के दिशः सर्वतः खेलन्मच्चरितप्रशस्तिसुभगस्तम्भाङ्कितोरःस्थलाः ॥१०॥ ( पुनः कर्णं दत्त्वा ) कथं पञ्चमोद्गारसारः समापतति गीतामृतासारः ?। अन्योन्यं विषयाणां गुरु-लघुभावो न कोऽपि यदि नाम । अन्येव तदपि रेषा गीतीनां कामिनीनां च ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy