SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । (पुनराकाशे) पुण्य[स्य] समिधः सत्य-दया-दान-प्रशान्तयः । अस्त्रा-ऽग्नि-कण्ठपाशास्तु देहदुःखाय केवलम् ॥३॥ मकरन्दः - ( सवीडमुपविश्य ) ततस्ततः । मागधिका - 'अहं दाणि भट्टिदारियाए एदाई वत्था-ऽऽहरणाई समप्पिदं किंचि कहिदुं च तुहं समीवे पेसिद म्हि । ( वस्त्राणि कटकानि च समर्पयति ।) मकरन्दः - कुत एतानि प्राप्तानि प्रियया ? । मागधिका - *चित्तंगदेण अणुकूलिदुं दिन्नाणि । मकरन्दः -- (सहर्षाश्चर्यम् ) . तरुणान्तरादवाप्तं समर्पयन्ती प्रसाधनं पत्युः । तरुणीयं दिशति मुदं मुधा सुधा सा पुरस्तस्याः ॥४॥ ( सप्रमोदमुत्थाय परिदधाति । पुनः सौत्सुक्यम् ) मागधिके ! कथय मियासन्दिष्टं वाचिकम् । अनुभवतु चिरादयं विप्रयोगानलाभितप्तो जनः प्रमोदकणिकाम् । मागधिका-'तुमं ज्जेव मे पई । अप्पा उण तए लहुणा हविय चित्तंगदाओ रक्खिदव्यो । जदो सो कुणइ किं पि पच्छा तणुआइ परेसु जो समत्थेसु । गोवत्तलहुं अप्पं कप्पिय हरिणा हओ कंसो ॥५॥ एस भट्टिदारियाए संदेसी । अवरं च न पहवंदि सिद्धालयनिवासीणं दरिदाई। तदो तए इध उजेव चिट्ठिदव्वं । अदुवा का वि विरहवसेणं अरई भोदि तदा एदस्स उज्जाणकेलिसरोवरस्स कूलकच्छेण कोलिदव्वं । ( इत्यभिधाय निष्क्रान्ता ।) १ अहमिदानीं भर्तृदारिकया एतानि वस्त्राभरणानि समर्पयितुं किञ्चित् कथयितुं च तव समीपे प्रेषिताऽस्मि । २ चित्राङ्गदेन अनुकूलयितुं दत्तानि । ३ त्वमेव मे पतिः । आत्मा पुन: त्वया लघुना भूत्वा चित्राङ्गदाद् रक्षितव्यः । यतः___ स करोति किमपि पश्चात् तनूयते परेषु यः समर्थेषु । गोषत्वलघु आत्मानं कल्पयित्वा हरिणा हतः कंसः ॥५॥ एष भर्तृदारिकायाः सन्देशः । अपरं च न प्रभवन्ति सिद्धालयनिवासिनां दुरितानि । ततस्त्वया इह एव स्थातव्यम् । अथवा काऽपि विरहवशेन अरतिः भवति तदा एतस्य उद्यानकेलि. सरोवरस्य कुलकच्छेन क्रीडितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy