SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - उपपन्नमिदम् । कथितं च तापसेन-स पुनर्गर्भोऽहमेव । (पुनविमृश्य ) मागधिके ! किमिति पुरुषरूपं कारिता मल्लिका ? । मागधिका - 'अवरेण अवहाररक्खणत्थं । मकरन्दः - ( साक्षेपम् )। अर्गला रक्षणे स्त्रीणां प्रीतिरेव निरर्गला । पदातिपरिवेषस्तु पत्युः क्लेशाय केवलम् ॥२॥ भवतु, ततः किं तस्याः साम्प्रतम् ? ( मागधिका उच्चैःस्वरं प्रलपति । ) मकरन्दः - मागधिके ! कथय कथय, पर्याकुलोऽस्मि । मागधिका - "किं कहेमि मंदभाइणी ? मल्लियाए दाणि जीविदस्स वि संदेहो वट्टदि । सा खु लयाहराओ चंदलेहाए सभवणं नेऊणं तुमं समरंती कसाघादेहिं ताडिदा। मकरन्दः - मागधिके ! मां स्मरन्ती कशाभिरभिताडिता प्रिया । हा प्रिये मल्लिके ! मत्प्रेमग्रहिला महाक्लेशाननुभवसि । ( विमृश्य ) मागधिके ! व्रज त्वम् । ब्रूहि चरममेतत् प्रियाम्-स्मतव्यस्त्वया कदाचिन्महाक्लेशहेतुषु स्मर्यमाणेषु निर्भाग्यशेखरः सोऽहम् । __ मागधिका - 'महाभाय ! कीस अत्ताणयं मिल्ले सि ? ___ मकरन्दः -- मागधिके ! न किमपि वक्तव्यस्त्वया । साम्प्रतमहं न शक्नोमि प्रियापरित्राणाक्षमोऽहं जीवितुम् । ( उत्थाय सास्रं देवतां प्रणम्य ) भगवन् ! जन्मान्तरेऽपि मे सुलभदर्शनो भूयाः । ( असिधेनुकयाऽऽत्मानमतिहन्तुमारभते, विलोक्य ) दो स्तम्भ इव मे । (आकाशे) कोऽयं सिद्धायतनेषु प्राणाभिघातः ? । मागधिका - महाभाय ! दिव्याए वायाए को वि तुमं वारेदि । १ अपरेण अपहाररक्षणार्थम् । २ किं कथयामि मन्दभागिनी ? मल्लिकाया इदानीं जीवितस्यापि सन्देहो वर्तते, सा खलु लतागृहात् चन्द्रलेखया स्वभवनं नीत्वा त्वां स्मरन्ती कशाघातैस्ताडिता । ३ महाभाग ! कस्मादात्मानं मुञ्चसि ? । ४ महाभाग ! दिव्यया वाचा कोऽपि त्वां वारयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy