SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । (ततः प्रविशति सिद्धायतनस्थो मकरन्दः ।) मकरन्दः-(साश्चर्यम् ) महाव्यसनसम्पातेऽपि दुस्त्यजाः प्राणिनामसवः । यदिदानी मल्लिकातुल्याकारं तापसकुमारं दृष्ट्वा पुनर्जीवितुमभिलपति मे हृदयम्। इष्टैरपि वियुक्तस्य क्षपितस्यापि शत्रुभिः । निळूनावयवस्यापि न मृत्युः प्राणिनः प्रियः ॥१॥ तदहमिदानीमपहाय महाक्लेशानारम्भ-परिग्रहान् , आधाय मनःसमाधिम्, तस्यैव तापसकुमारस्याभ्यणे व्रतमाचरामि येन परलोकगतस्यापि मे मल्लिका प्रिया सङ्घटते । (विमृश्य) पुनः कथं चन्द्रलेखा मामभिक्रुध्यति ? । निश्चितमिय मल्लिकां ब्रह्मदत्तभवनादपहृतवती ।तावदयमर्थों मागधिकायाः स्फुटो भविष्यति । ( नेपथ्ये ) 'हा मियंकवयणे! हा सरोजनयणे! हा पडिवन्नवच्छले भट्टिदारिए! कहि सि दाणिं ? देहि मे पडिवयणं । हा निकरुणे चंदलेहे ! केरिसो एस दे निययम्मि अवच्चम्मि पच्चूहकरणसंरंभो ? । मकरन्दः - कथमेषा मागधिका प्रलपति ? । (प्रविश्य ) मागधिका - 'अज्ज मयरंद ! पिच्छ मल्लियाए भट्टिदारियाए कीदिसं सवुत्तं ?। मकरन्दः - ( ससम्भ्रमम् ) मागधिके ! हर्ष-विषादयोरन्तरे तिष्ठामि । मल्लिकासन्नामश्रवणात् प्रहृष्टोऽस्मि । अपायशङ्कया पुनर्विषण्णोऽस्मि । तत् कथय किमत्र क्वापि मल्लिकाऽस्ति ? । मागधिका - एसा मल्लिया पंचसेलाओ अवह रिय गुलियापओगेणं पुरिसरूवं काऊण लयाहरे चंदलेहाए विमुक्का चिट्ठदि। १ हा मृगाङ्कवदने ! हा सरोजनयने ! हा प्रतिपन्नवत्सले भर्तृदारिके ! कुत्र असि इदानीम् ? देहि मे प्रतिबचनम् । हा निष्करुणे चन्द्रलेखे ! कीदृश एष ते निजे अपत्ये प्रत्यूहकरणसरम्भः ? । २ आर्य मकरन्द ! पश्य मल्लिकाया भर्तृदारिकायाः कीदृशं संवृत्तम् ? ।। ३ एषा मल्लिका पञ्चशैलाद् अपहृत्य गुटिकाप्रयोगेण पुरुषरूपं कृत्वा लतागृहे चन्द्रलेखया विमुक्ता तिष्ठति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy