________________
३२
महाकविश्रीरामचन्द्रविरचितं
क्वापि दुरात्मा मनुष्यकीटः । हला मनोरमे ! मध्यस्थिताऽस्मद्वयापाराणां विघा - तमासूत्रयसि ? |
( मनोरमा वेपते । )
तापसकुमारः ( सरोषम् ) अम्ब ! किमेनं निरपराधं महात्मानं व्यापादयसि ? । मामेव हृदयसन्तापहेतुं दुरपत्यं व्यापादय ।
चन्द्रलेखा आः पापे ! सोल्लुण्ठवादिनि ! कौमारकुलिटे ! यदि ते व्यापादनसमीहा तदानीमेषा पूरयामि । ( तापसं केशैर्गृहीत्वा ) देवलक ! गृहाai दुष्टपरिचारिकाम् ( इत्यभिदधाना सदेवलका निष्क्रान्ता । )
॥ तृतीयोऽङ्कः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org