________________
मल्लिकामकरन्दनाटकम् । दिजन्मनः क्षमा मातुषः प्रीतिः पणस्त्रियः ।। नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ २३ ।।
( पुनः सदैन्यम् ) मागधिके ! मम त्वमम्बाप्रतिकृतिः। अहमिदानीं भवत्साहायकेनैव व्यसनाम्भोधिमतिलवयिष्यामि । ततो वितर्कय कमप्युपायमेतस्य मम जीवितस्य परित्राणाय ।
मागधिका - 'संपदं सिद्धाययणावत्थाणमेव उवाओ ।
तापसकुमारः - समुचितमाह भवती, न प्रभवन्ति सिद्धायतनस्थायिनां क्षुद्रोपद्रवाः।
मकरन्दः - ( स्वगतम् ) यथाऽयं तापसः सदैन्यं मामवलोकयति तथा जाने मम किमप्यनिष्टमुपस्थितम् । (प्रकाशं सावष्टम्भम् ) भगवन् ! भवति दृष्टे हृदयवल्लभा दृष्टा । कृतार्थोऽहम् । अतः परं कुतोऽपि परित्राणमभिलषामि।
मृत्यवे बद्धकक्षस्य किं मे देवी करिष्यति ?। किमाधत्तां पतिः क्षुद्रो मर्त्यस्य फलनिस्तृषः ॥२४॥ तापसकुमारः - किमायत्तं ते जीवितम् ? । मकरन्दः - एतावन्तं कालं कृतान्तायत्तम्, साम्प्रतं त्वदायत्तम् ।
तापसकुमारः - उत्तिष्ठ, तर्हि व्रज सिद्धायतनम् । यदियं मागधिका कारयति तदेव तत्रस्थितेन त्वया कर्तव्यम् ।
(मागधिकया · सह मकरन्दो निष्क्रान्तः । )
(नेपथ्ये व्योमतः शिलापातः । ) उभौ - ( विलोक्य सत्रासम् ) किमिदम् ? ।
( प्रविश्य देवलकेन दत्तहस्तावलम्बा ) चन्द्रलेखा - आः पाप मनुष्यकीट ! द्वीपान्तरस्थिताया अपि मद्वत्सायाः पृष्ठं न मुञ्चसि ? इदानीमनुभवतु दुविनयस्य फलम् । ( देवलकम् ) शिलाया अधोभागादाकर्षय दुरात्मानमेतम् , येन मृतमपि स्वहस्तेन मारयामि ।
देवलकः - ( शिलामुक्षिप्य ) देवि ! न कोऽप्यधस्तादस्ति । चन्द्रलेखा - ( सवैलक्ष्यम् ) तर्हि निष्फलोऽयं शिलापातप्रयासः। गतः १ साम्प्रतं सिद्धायतनावस्थानमेव उपायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org