SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - (सबाष्पम् ) पञ्चशैले च कुतोऽपि वल्लभाजनतः केनापि महीयसामश्राव्येण विधिना विप्रयुक्तः। तापसकुमारः - (साशङ्कम् ) ततः किम् ? । मकरन्दः - मरणार्थमात्मानमम्भोधौ पातयन्नेकमायातं भारुण्डपक्षिणमद्राक्षम् । ततः परमात्मानं सिद्धायतनोपवने विलोकितवानस्मि । तापसकुमारः - (स्वगतम् ) निश्चितमयं मांसलुब्धेन भारुण्डपक्षिणा रत्नसानाविह समानीतः। मकरन्दः - ततः प्रसीद, समादिश मे विरहवह्निदन्दह्यमानवपुषः किमपि मरणोपयिकम् । (नेपथ्ये) गृहाणैाद् देव्या समुपनात दिव्यफलनिकरम् । तापसकुमारः - अपरमपि किमपि प्रयोजनम् ?। देवलकः - योऽयं मर्त्यः समायातः स किमाकृतिः ? किमासन्नश्च ? इति परिज्ञातुमपरं प्रयोजनम् । तापसकुमारः - ( सरोषम् ) एतेन किं ज्ञातेन ? । देवलकः - ( साक्षेपम् ) अमुं प्रश्नं नाहमर्हामि, किन्तु देवी चन्द्रलेखा। (-इत्यभिधाय निष्क्रान्तः । ) - तापसकुमारः - ( वामाक्षिस्फुरणमभिनीय अपवार्य च ) मनोरमे ! यथाऽयं देवलकः साक्षेपवादी तथा जाने देवी चन्द्रलेखातः कोऽप्यपायो मकरन्दस्यास्य प्रत्यासन्नः । तत् कथय किमधुना समुचितमाधातुम् ? । . (प्रविश्य ) मागधिका - (सम्भ्रान्ता ) 'अच्चाहिदं अच्चाहिदं । तापसकुमारः - ( सभयाशङ्कम् ) विश्रब्धमभिधीयताम् , कस्य अत्याहितम् ?। ( मागधिका कर्णे एवमेव । ) तापसकुमारः - ( सकम्पम् ) अहो ! मयि निरनुरोधा माता । (विमृश्य ) १ अत्याहितं अत्याहितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy