SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् | २९ 'अच्छरियं ते वि जियंति ते वि पहसंति ते वि कीलंति । उयरभरणे वि पिच्छंति निच्चमवराण जे वयणं ॥ १८ ॥ मकरन्दः यौवनारम्भे च सव्जातवेश्याव्यसनोऽहम् । तापसकुमारः ( सेर्ष्या रोषम् ) अतः परमश्रव्यचरितोऽसि मा पुरो 1 व्याहृथाः । जात्यन्धाय च दुर्जनाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्टाभिभूताय वा । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ? ॥ १९ ॥ मकरन्दः भगवन् ! अनुचितमभिदधासि । जगतोऽपि यदिह निन्द्यं तद् यासां धर्मकर्मवदनिन्द्यम् । तासां पणहरिणदृशां गवेष्यते किमपरं श्रेयः १ ॥ २० ॥ अपि च आगन्तुकेन कार्य घनसलिलं पणवधूवशीकरणम् । एतेषु त्रिषु शक्तो ब्रह्माऽपि न निर्णयं कर्तुम् ॥ २१ ॥ ( तापसकुमारः सरोषमन्यतोऽवलोकयति । ) मोरमा - भयवं ! पसीय पसीय, पुरओ सुणेहि । - मकरन्दः - ( सविनयम् ) भगवन् ! कोऽयमस्मासु दैवहतकेषु सोऽयमप्रसादातिरेकः ? । प्रसीद, दुःश्रवमपि निर्भाग्यशेखरस्य मे श्रृणु चरितलेश वैशशम् । तापसकुमारः ( सावज्ञम् ) तर्हि त्वरिततरमावेदय, अतिक्रमति मध्या इसवमसमयः । मकरन्दः कापटिकवृत्तितया च ज्ञातिषु स्थातुमशक्यः सुवर्णद्वीपमपहाय पञ्चशैल द्वीपमाश्रितोऽस्मि । - तापसकुमारः - समुचितमाचरितम् । Jain Education International स्थातुं तेजस्विना शक्यं न जातिषु गतश्रिया । अस्तापास्तवपुर्भास्वान् नभस्तेन विमुञ्चति ॥ २२ ॥ १ आश्चर्य तेऽपि जीवन्ति तेऽपि प्रहसन्ते तेऽपि क्रीडन्ति । उदरभरणेऽपि प्रेक्षन्ते नित्यमपरेषां ये वदनम् ।। १८ ।। २ भगवन् । प्रसीद प्रसीद, पुरतः शृणु । For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy