SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित मकरन्दः – ( सोत्सुकम् ) ततः किं कृतवती ?।। तापसकुमारः -पञ्चशैले, नहि नहि अत्रैव प्रवर्धितवती । मकरन्दः - (स्वगतम् ) निश्चितमयमतः परं कृत्रिममभिदधाति, तद् जाने सपनॊ मल्लिका । दर्शितानि च पञ्चशैलाधिवासिना श्रेष्ठिना ब्रह्मदत्तेन महाराजवैनतेयनामाङ्कितान्यङ्गुलीयकानि । अनेन पुनमल्लिकासोदरेण भाव्यम् । तापसकुमारः - स गर्भः पुनरहम् । विषयाणां विशेषतश्व स्त्रीणां दुःखहेतुतां विज्ञाय तपोविधिमङ्गीकृतवानस्मि ।। मकरन्दः -भगवन् ! अतः परमनुभवविरुद्धमभिदधासि । नाम्नाऽपि यत्र सुदृशां परमः कलङ्कः तस्मै नमः शिवपथाय न तस्य चिन्ता । संसारवम॑नि पुनः सुदृशो विहाय विद्मो न किञ्चिदनघस्य सुखस्य बीजम् ॥१६॥ ( तापसकुमारः सात्त्विकभावान् नाटयन्नधोमुखस्तिष्ठति ।) मनोरमा - ( तापसं विलोक्य स्वगतम् )' नूणं सो एस पुरिसो जं चंदलेहा वावाइदुमिच्छति । भोदु, पुरो जाव जाणिस्सं । ( प्रकाशम् ) तुमं पि किं पि अपणो चरिदं कहेसु । मकरन्दः -भद्रे ! खेचराणां चरितश्रावणे मनुजकीटानामस्मादृशामाकणितं चरितं किमधिकमाश्चर्यमाविष्करोति ? तथापि श्रुणु - सुवर्णद्वीपवासी जिनदत्तनामा क्रमागताद्भुतवैभवः परमधाभिकप्रकाण्डं वणिगस्ति । मनोरमा -'तदो तदो ? _मकरन्दः - तस्य चैक एव चरमवयःप्रसूतो बाल्यादपि दुरोदरप्रवासितपितृसम्पत्तिजठरपिठरीभरणमात्रेऽपि प्रत्यहं परमुखप्रेक्षो मकरन्दनामा सूनुरहम् । तापसकुमारः - अहह ! दुश्चरितसन्निवेशः। व्यसनं सौजन्यवतां कार्कश्यं योषितां श्रियां चलता। कार्पण्यं क्षोणिभृतां चत्वारि विधातुरधमानि ॥१७॥ मनोरमा - १ नूनं स एष पुरुष: यं चन्द्रलेखा व्यापादयितुमिच्छति, भवतु, पुरो यावद् ज्ञास्यामि । त्वमपि किमपि आत्मनः चरितं कथय । २ ततः ततः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy