SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ___२७ मल्लिकामकरन्दनाटकम् । तापसकुमारः - ( साक्षेपम् ) कोऽस्याभिभाषितस्य प्रस्तुतेनाभिसम्बन्धः । मकरन्दः - अयं सम्बन्धः-प्रकाश्यमपि न सर्वांपेक्षम् । ततो यदि मयि प्रसीदति भगवान् , तदा समादिशतु - कमभिजनं स्वजन्मना पवित्रितवानसि ? किमर्थं च विषयसुखोपभोग्ये वयसि सर्वाङ्गीणसुभगे च वपुषि महाक्लेशमय: सोऽयमङ्गीकृतस्तपोविधिः । तापसकुमारः - महापुरुष ! सत्यं प्रकाश्य एवायमर्थः । तथापि ममान्त:करणमतिविह्वलमिदानीं केनापि हेतुना, वाच्यमवाच्यं वा न किश्चिद् विवेचयति । ततः शणु, कथयामि-वैताध्याचलस्य देहैकदेशो रत्नसानुनामा गिरिरयम् । मनोरमा - 'तदो किं ?। तापसकुमारः- रथनूपुरचक्रवालनगरस्याधिपतेर्वैनतेयनाम्नो विद्याधरराजस्य प्रथममहिषी जन्द्रलेखा, तदेतस्य वारिषेणनाम्ना शाश्वतिकेन भगवता जिनेश्वरेण सम्भावितगर्भभागस्य सिद्धायतनस्य शिखरातिलङ्घनेन तदात्वविस्मृतनभोगमनविद्या सद्यो रत्नसानाविह पपात । मकरन्दः - अहो ! भय-कौतुककारी कथासन्निवेशः। तापसकुमारः - खेचराधिपत्यविरहविषादिनी च विषयानपहाय विद्याप्रसाधनार्थ पाण्मासिकं तापसव्रतमिह लतागृहे गृहीतवती । मनोरमा - 'तदो तदो ? । तापसकुमारः - व्रतसमाप्तौ प्रसन्नायां च विद्यायां चिरपरित्यक्तकुसुमायुधान्धलमानसा किरातयुवानमेकमुपभुक्तवती । (मनोरमा सलज्जमधोमुखी भवति ।) मकरन्दः - भगवन् ! अतीव व्रीडाकरमाचरितं तया । यदि वा तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥१५॥ तापसकुमारः - पूर्वदुष्कर्मपाकेन सब्जातगर्भा प्रसूतमात्रैव तं गर्भमल्पीयसा महार्येण नेपथ्याकल्पेन संयोज्य -(इत्योक्ते तूष्णीम्भवति ।) १ ततः किम् ? । २ ततः ततः ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy