SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं ( ततः प्रविशति लतागृहस्थस्तापसकुमारः मनोरमा च । ) तापसः – (साश्चर्यमात्मगतम् ) अहो ! जन्मान्तरदृश्यस्यार्थस्यात्रैव निदर्शनम् । उत्पातेषु महत्स्वपि सुमेधसा जीवितं न हातव्यम् । सति जीविते कथञ्चिद् घटते किञ्चित् पुनः प्रेयः ॥ १० ॥ मकरन्दः - ( विलोक्य) कथं तापसकुमारः अत्यन्त सदृशावयवस्तस्या मल्लिकायाः ?, जाने मल्लिकां परिवृत्य वेधसाऽयं घटितः । भवतु, प्रणमामि । (" इति प्रणमति । ) तापसकुमारः मकरन्दः ( उपविश्य साभिलाषं स्वगतम् ) अहो ! गात्रस्य सौन्दर्यम्, अहो ! वाचां विदग्धता । अहो ! मध्यस्य तुच्छत्वम्, अहो ! श्रोणेविशालता ॥ ११ ॥ तापसकुमारः - कुतो भवानस्मिन् दिव्यजनसमुचितसञ्चारे रत्नसानौ समायातः ? । २६ मकरन्दः साम्प्रतं सिद्धायतनात् परतः पुनरहमपि न जानामि । मनोरमा - ( सोपहासम् ) परदो आगमणे अहं कहिस्सं । मकरन्दः ( सस्पृहमात्मगतम् ) अमुमकृत यदङ्गनां न वेधाः स खलु यशस्वितपस्विनां प्रभावः । त्रिजगति कथमन्यथा कथाsपि स्वस्ति, समीहितमाप्नुहि, मनोरमे ! आसनमुपनय । - क्षततमसां तपसां पदं लभेत ? ॥१२॥ ( प्रकाशम् ) भगवन् ? अपरिचितमपि चिरपरिचितमिव मे हृदयम्, ततः किमपि प्रष्टुमभिलषामि । तापसकुमारः न नाम सर्वाणि कर्माणि परिचयमपेक्षन्ते । क्षणदृष्टेऽपि कुत्रापि दृढं सङ्घटते मनः । बालस्तदात्वजातोऽपि जनन्याः स्निह्यति स्तने ॥ १३ ॥ Jain Education International मकरन्द: न सर्वकामुकापेक्षं स्त्रीणां दौर्भाग्यलाञ्छनम् । हिमानी शाखिनां द्वेष्या यवस्तम्बस्य तु प्रिया ॥ १४ ॥ १ परतः आगमने अहं कथयिष्यामि । For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy