SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । एताः किन्नरगीतयः श्रुतिपथामोदं यथा कुर्वते क्षौमाकल्पमयच्छदच्छविजुषः शाखा यथा शाखिनाम् । आशाः शक्रशरासनैवनसरोमाणिक्यरोधोमहः( हैः ?) किर्मीरास्तनुते यथा रतिमयी सेयं तथा स्वर्गभूः ॥६॥ भवतु, परिक्रमामि ।( पुरोऽवलोक्य ) कथमिदं वीतरागप्रतिमाप्रसाधितमध्यभागं देवतायतनम् ? आचक्षते हि शाश्वतिकानि दिव्यभूमिषु सिद्धायतनानि सिद्धान्तविदः। (सप्रश्रयं प्रणम्य साश्रमञ्जलिमाधाय) श्रीनिर्वाणपुराधिनाथ ! भगवन्नस्तोकलोकत्रयी शोकोद्धारधुरीण ! विश्वजनतासङ्कल्पकल्पद्रुम !। अस्मासु प्रणतैकवत्सल ! कृपापात्रेषु तांस्तांश्चिरं कामान् पूरय चूरय प्रतिकलं प्रत्यूहवज्रार्गलाः ॥७॥ ( नेपथ्ये ) 'अवरेहि वि कूवजलेहि न हुन जीवंति मामि ! वल्लीओ। जलहरजलसित्ताणं का वि [य] अवरा मुहच्छाया ॥८॥ मकरन्दः - ( आकर्ण्य ) कथमेष मल्लिकाशब्दानुसारी ध्वनिः:१। (पुनर्नेपथ्ये) वल्लहजणविरहीणं पाणपवासो वि बाहिरी किरिया। संताव-रुण्ण-गहिलत्तणाइ पुण कित्तियं कम्मं ? ॥९॥ मकरन्दः - निश्चितमयं विरहव्यथाभिर्मरणोन्मुखाया मल्लिकाया ध्वमिः । यदि वा जीवितमपि तस्यास्तपस्विन्याः सन्दिग्धम्, किं पुनर्ध्वनिः ? । (विलोक्य) येयं पराचीनवदना पुष्प-फलान्युपचिनोति मृगाक्षी तस्याः परिदेवनध्वनिरयम् । भवतु, समीपीभूय सम्भाषयामि । कथमियं तिर्यगवलोकयन्ती मां भूयोभूयस्तरुभिस्तिरोधत्ते ? भवतु, पदानुसारेणानुगच्छामि । १ अपरैरपि कूपजलैः न खलु न जीवन्ति सखि ! वल्ल्यः । जलधरजलसिक्तानां काऽपि च अपरा मुखच्छाया ॥ ८ ॥ २ वल्लभजनविरहिणां प्राणप्रवासोऽपि बाह्या क्रिया । सन्तापरुदितग्रथिलत्वादि पुनः कियत् कर्म ? ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy