SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २४ महाकविश्रीरामचन्द्रविरचितं अकाण्डको पिनो भर्त्तरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं ब्रह्मणाऽपि न शक्यते ॥ ३ ॥ भवतु, देवी चन्द्रलेखा किमादिशति ? | चेटी - 'अवि मारिस्सं, न उग अन्नस्स पडिवादयस्सं ति आइसइ । देवलकः - मल्लिकायाः कीदृशो निर्बन्ध : ? | चेटी - 'अवि मरिस्सं, न उण अवरं परिणयस्सं ति निर्बन्धः । देवलकः - तदेवं सम्भाव्यते उन्मत्तप्रेम संरम्भादारभन्ते[ ऽत्र कामिनः १ ] 'तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ४ ॥ तदलमनया मीमांसया । अपरमाश्चर्यमाकर्णय - खेचराणामपि दुर्लभायामस्यां भूमौ प्रातः सिद्धायतने मया मनुष्यो दृष्टः । चेटी - 'देवलय ? तं चिय मणुस्सं गवेसिढुं भट्टिणीए चंदलेहाए पेसिद हि । ता कत्थ सो चिट्ठदि ? | देवलकः - विलोकय गत्वा, एष सिद्धायतने तिष्ठति । अहमपि मल्लिकाया दिव्यफलान्युपनयामि । ( इति निष्क्रान्तः । ) ॥ विष्कम्भकः ॥ ( ततः प्रविशति सम्पातमूर्च्छितो मकरन्दः । ) ( चेतनामास्थाय विलोक्य च सविमर्शम् ) मकरन्दः स्वप्नं किं नु ?, किमिन्द्रजालमथवा किं चेतसो विभ्रमो ?, दोषः कोऽपि किमेष मे नयनयोर्विश्वैकसम्मोहकृत् ? । पाताले त्रिदिवेऽथ किं समभवज्जन्मान्तरं मेऽवरं ?, कोsस्मि ? कास्मि ? किमस्मि कर्म विदधत् ? क्षिप्तोऽस्मि नात्र च १ ॥ ५ ॥ ( सर्वतो निरूप्य ) १ अपि मारयिष्यामि, न पुनः अन्यस्मै प्रतिपादयिष्यामीति आदिशति । २ अपि मरिष्यामि, न पुनः अपरं परिणेष्यामि । ३ देवलक ? तमेव मनुष्यं तिष्ठति ? | Jain Education International गवेषयितुं भट्टिन्या चन्द्रलेखया प्रेषिताऽस्मि । तत् कुत्र स For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy