________________
तृतीयोऽङ्कः
(ततः प्रविशति चेटी।) चेटी - ( साश्चर्यम् ) 'अणुराओ च्चिय दइएसु घडइ सोहग्गचंगिमगुणाई। चंदु च्चिय जणइ मणीसु कठिणबंधेसु सलिलाई ॥१॥
(प्रविश्य ) देवलकः - मागधिके ! कथं सुभाषिताध्ययनवाचालवक्त्रकुहराऽसि ।
चेटी - 'अज्ज देवलय ! किं कहेमि ? विचित्ताओ मणोवित्तीओ । तादिसं पि विज्जाहररायकुमारं भत्तारं मल्लिआ न पडिवज्जदि ।
देवलकः - अन्यत्र बद्धरागा सम्भाव्यते । चेटी - साहु विण्णायं । ( पुनः कर्णे एवमेव ।) देवलकः - अहो ! प्रकृत्यैव कुपात्रे निर्बन्धः स्त्रीलोकस्य । चेटी- अज्ज ! मा एवं आइससु । तं चिय परमत्थेणं रमणिज्जं जत्थ हिययवीसामो।
हरिसंति असोयलया जेणं पायप्पहारेहिं ॥२॥ देवलकः - इदानीं चित्राङ्गदः किमनुतिष्ठति ? ।
चेटी- 'विचित्तेहिं विणयकम्मे हिं विचित्ताहिं पसाहणदाणपइन्नाहिं पडिदिणं पसादेदि, परं न मल्लिया पसीयइ ।
देवलकः - भद्रे !
१ अनुराग एव दयितेषु घटयति सौभाग्यचङ्गिमगुणान् ।
चन्द्र एव जनयति मणीषु कठिनबन्धेषु सलिलानि ॥ २ आर्य देवलक ! किं कथयामि ? विचित्रा मनोवृत्तयः, तादृशमपि विद्याधरराजकुमारं भर्तारं
मल्लिका न प्रतिपद्यते । ३ साधु विज्ञातम् । ४ आर्य ! मा एवं आदिश ।
तद् एव परमार्थेन रमणीयं यत्र हृदयविश्रामः ।
हृष्यन्ति अशोकलताः येन पादप्रहारैः ॥ २ ॥ ५ विचित्रैः विनयकर्मभिः विचित्राभिः प्रसाधनदानप्रतिज्ञाभिः प्रतिदिनं प्रसादयति. परं न मल्लिका प्रसीदति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org