SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २२ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - किमाश्चर्यम् ? यावत् कुरङ्गनेत्रा तरुणी तरुणस्य दास्यमाधत्ते । वृद्धोऽपि तावदिच्छति न वीक्षयते योग्यतामिच्छा ॥ २० ॥ अपि च पृथिव्यां वीरभोग्यायां लक्ष्म्यां चापल्यसंस्पृशि । स्त्रियां चाशंक्यरक्षायां कस्य किं नाम नोचितम् ? ॥ २१॥ (नेपथ्ये) तर्हि प्रयत्नमादधीथाः, इयमेतामपहरामि । वत्से ! मास्म विषादिनी भूः । एहि त्वरिततरम्, त्वामहं विद्याधरराजमहिषीमाधास्यामि ।। मल्लिका - 'हा अज्जउत्त ! हा ताद ! हा अंब ! एसा असरणा केणावि अवहरिज्जामि । ( इति प्रलपन्ती तिरोधत्ते । ) मकरन्दः - कथमपहृता प्रिया ? हा पिये मल्लिके ! त्वदपहारदुःखसाक्षी पापीयान् । ( मूछति । पुनश्चेतनामास्थाय ) कथमहं दुरात्मा भग्नप्रतिज्ञः स्वमास्यं मल्लिकामातापित्रोदर्शयामि ? । तदनेनैवोपवनपाश्चात्यद्वारेण मिर्गत्य प्रियाप्रेमोचिसमादधामि । ( इति निष्क्रान्तः ।) ॥ इति द्वितीयोऽङ्कः ॥२॥ १ हा आर्यपुत्र ! हा तात ! हा अम्ब ! एषा अशरणा केनापि अपहिये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy