SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । मल्लिका - 'भद ! कुदो दे कुंडलसंपत्ती ? | मकरन्दः यतो भवती बन्धुला च जानाति । - मल्लिका – 'अज्जउत्त ! मए कुंडलच्छलेण अप्पा तुह समप्पिदो | मकरन्दः - कुण्डलच्छलेन त्वयाऽऽत्मा मा समर्पितः मया तु छलं विनाऽपि तुभ्यम् । मल्लिका - अज्जउत्त ! सुणेहि मे एगं पइन्नं- अहं तुमं परिणेमि, कुमारी चिट्ठामि । मकरन्दः ? 1 - ४ ( साक्षेपम् ) सहस्रशो विज्ञातस्यार्थस्य किं फलम् मल्लिका: - एदं फलं, जधा पुणो पुणो मे दाणि दाहिणं नयणं पडिफुरदि तधा जाणे अवस्सं अवहारेण भोदव्यं, तदो तए जीविदपवास करणं अवहरण निब्बंधो [वा ] न कायव्वो । मकरन्दः - ( साक्षेपम् ) प्रिये ! किमिदमनुचितमभिदधासि ? | हृतस्य जीवितस्यास्य निश्चयेन प्रवासिता । > प्रवासश्चेत् प्रियस्यार्थे ततः किं नाम वैशसम् ? ॥ १९ ॥ मल्लिका - अज्जउत्त ! करेहि मे पसादं, एस दे पुरओ निबद्धो अंजली, सिटिलेहि साहस, जीवंताणं पुणो वि संगमो भविस्सदि । (नेपथ्ये नूपुरध्वनिः । मल्लिका आकर्ण्य वेपते । मकरन्दः पञ्चपरमेष्ठिनमस्कारयन्नसिदण्डमाकर्षति । ) ( नेपथ्ये ) त्वमसि रक्षिता परिणेता वा ? । अरे ! मकरन्दः अहं परिणेता रक्षिता च । ( नेपथ्ये ) अहो ! आश्चर्यम्, विद्याधरकन्यकाया मनुष्य कीटः परिणेता रक्षिता च । - Jain Education International २१ १ भद्र ! कुतः ते कुण्डलसम्प्राप्तिः ? | २ आर्यपुत्र ! मया कुण्डलच्छलेन आत्मा तुभ्यं समर्पितः । ३ आर्यपुत्र ! शृणु मे एकां प्रतिज्ञाम् अहं त्वां परिणयामि, कुमारी वा तिष्ठामि । ४ एतत् फलम्, यथा पुनः पुनः मे इदानीं दक्षिण नयनं प्रतिस्फुरति तथा जानामिअवश्यं अपहारेण भवितव्यम्, ततस्त्वया जीवितप्रवासकरणं अपहरणनिर्बन्धो [ वा ] न कर्त्तव्यः । ५ आर्यपुत्र ! कुरु मयि प्रसादम् एष ते पुरतः निबद्धः अञ्जलिः, शिथिलय साहसम् जीवतोः पुनरपि सङ्गमो भविष्यति । For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy